गङ्गापूजा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गङ्गापूजा

गङ्गापूजागङ्गापूजा उत्तरभारतीया दक्षिणभारतीयेति द्विविधा । दक्षिणभारते आश्विनकृष्णपक्षस्य अष्टम्यां सौभाग्यवृद्ध्यर्थं गृहिण्य: सूर्योदयात्पूर्वम् उष:काले नदी-ह्रद-कूपजलं गङ्गाभावनया पूजयित्वा तज्जलं कलशद्वये आनीय देवपीठे संस्थापयन्ति । अनन्तरं गृहस्थ: एककलशस्य जलेन देवम् अभिषिञ्चति । अन्यजले गङ्गाम् अर्चति । मधुरभक्ष्यं निवेद्य विप्रम् अर्चयित्वा भोजनं कुर्वन्ति । अन्यश्च गङ्गापूजा उत्तरभारतस्य त्रिपुराराज्यस्य धार्मिक: उत्सव: वर्तते । त्रिपुराया: वनवासिजना: देवनदीं गङ्गां पूजयन्ति प्रार्थयन्ति च साङ्क्रामिकरोगत: सत्वापन्नाया: रक्षणार्थं सुखजीवनार्थञ्च । उत्सवाचरणसमये वंशनिर्मितदेवभवनं नदीजलमध्ये निर्मान्ति । प्रसिद्धा नदी गङ्गा पूज्यते एकतमा च भवति चतुर्दशदेवतारूपेण प्रदेशेऽस्मिन् । भारतीयपञ्चाङ्गाधारेण मार्च-एप्रिल्-मेमासेषु पूर्वसूचिते एकस्मिन् दिनाङ्के एष: उत्सव: प्रसिद्धतया आराज्यम् आचर्यते ।

पद्धति:-

व्रीहिफलोदये नवान्नोत्सवानन्तरं गङ्गापूजा आचर्यते । उत्सवदिनव्यत्यास: भवति परन्तु मार्च-एप्रिल् मासे । अस्मिन् उत्सवे त्रिपुराया: चतुर्दशदेवतासु अन्यतमां देवनदीं गङ्गां पूजयन्ति । अवसरेऽस्मिन् वनवासिन: जना: सर्वे नदीतीरे सम्मील्य वंशकाण्डत्रयै: सुन्दरपुष्पं निर्मान्ति । अनन्तरं वंशनिर्मितसामयिकदेवमन्दिरं विन्यस्य अ्गाधजलमध्ये भक्त्या उत्सवम् आचरन्ति । साङ्क्रामिकरोगनिवारणार्थं देवतानां शक्ति: प्रवर्धते इति धिया विश्वासेन च देवेभ्य: मराल-अज-वृषभाणां बलिं निवेदयन्ति । गर्भवत्या: पालनार्थं देवतासु प्रार्थना उत्सवस्य अन्य: उद्देशो भवति । उत्सवाङ्गतया त्रिपुराराज्ये सम्पूर्णे पारम्परिकनृत्यं प्रसादयन्ति सर्वे ।

सम्बद्धकार्यक्रमा:-

त्रिपुराया: भाषा भवति बेङ्गाली, बिहुनृत्यञ्च प्रसिद्धम् ।

उत्सवार्थम् एकैकश: शुल्कपरिमाणं दातव्यम् इति पूजकै: त्रिपुराया: आनुवंशिकराजाधिकारिभिश्च वनवासिजनानां कृते आज्ञा क्रियते । १९४३ शततमे वर्षे रूप्यकद्वयत: रुप्यकचतुष्टयं शुल्कवर्धनं कृतवन्त:, वनवास्जना: शुल्काधिक्येन कुपिता: व्यापकत्वेन सर्वत्र प्रतिरोधं प्राकटयन् । परन्तु अधिकारिभि: अचिरमेव प्रशमनं कृतम् । १९४७ शततमे वर्षे ब्रिटिश् शासनात् स्वातन्त्र्यं भारतमभवत् तथापि त्रिपुराराज्यस्य तात्कालिकराज्ञी काञ्चनप्रवा (प्रभा) देवीवर्या नूतनभारतगणसमूहे  एकीभवितुं नेष्टवती । अस्मिन्नवसरे त्रिपुराराज्यं राजशासनात् विमोचनाय प्रजाप्रभुत्वस्य प्रतिष्ठापनाय च प्रजाभि: मुक्तिपरिषत् नामकस्य सङ्घटनस्य निर्माणमभवत् । एनं समयमुपयुज्य १९४८ वर्षे सङ्घटनस्य नायक: दशरथदेबबर्मा (देववर्मा) गङ्गापूजाव्याजेन मुक्तिपरिषदर्थम् एकरूप्यकमात्रं कुटुम्बश: सङ्ग्रहीतवान् । तथापि देववर्मण: कार्यकलापा: दमनीकृता:, कालक्रमेण सङ्घटनस्य कार्यकलापा: अपि क्षीणा: सञ्जाता:, किञ्च अन्ते १९५० तमे वर्षे परिषदियं कम्युनिष्टसिद्धान्तपक्षे विलीनाभवत् । एतन्मध्ये १९४९ तमे वर्षे त्रिपुरया भारतगणराज्यव्यवस्थाङ्गीकृता अनुमोदिता च ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गङ्गापूजा&oldid=463311" इत्यस्माद् प्रतिप्राप्तम्