४४तमी ओलिम्पियाड्-चतुरङ्गप्रतियोगिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
४४तमी चतुरङ्ग-ओलिम्पियाड्
सञ्चिका:Chess Olympiad 2022 official logo.jpeg
४४तमी चतुरङ्ग-ओलिम्पियाड्-इत्यस्य चिह्नम्‌
अवचारणतिथिः २०२२ वर्षे २८ जुलाई – १० अगस्त
प्रतियोगिनः १,७३६ (स्वतन्त्रे च ९३७ महिलावृत्ते च ७९९)
दलाः १८८ (स्वतन्त्रम्)
१६२ (महिला)
राष्ट्राणि १८६ (स्वतन्त्रम्)
१६० (महिला)
स्थानम् फोर् प्वाइण्ट् बाय् शेरटोन्, महाबलिपुरम्
जवाहरलालनेहरूक्रीडाङ्गनम् (उद्घाटनसमापनानुष्ठाने)
नगरम् चेन्नै, तमिळ्नाडुराज्यं भारतम्
पूर्वतना ←बातुमी २०१८
अग्रिमा बुद्धप्रस्थम् २०२४→

चतुश्चत्वारिंशतमी चतुरङ्ग-ओलिम्पियाड् (आङ्ग्ल: 44th Chess Olympiad; तमिळ: ௪௰௪ ஆவது சதுரங்க ஒலிம்பியாடு), चेन्नै चतुरङ्ग-ओलिम्पियाड् इत्यपि ज्ञायते, इति चतुरङ्गप्रतियोगिता अस्ति या भारतस्य तमिळ्नाडुराज्यस्य चेन्नैनगरे २०२२ वर्षे २८ जुलाई-तः १० अगस्त पर्यन्तम् आयोजितमस्ति । अस्य आयोजनम् अन्तराष्ट्रियचतुरङ्गमहासङ्घः (FIDE) इत्यनेन कृतम् अस्ति । अत्र स्वतन्त्रानां महिलानां च प्रतियोगिताः सन्ति, तथैव चतुरङ्गक्रीडायाः प्रचारार्थं निर्मिताः अनेकाः कार्यक्रमाः च सन्ति । इयं भारतदेशस्य प्रथमा चतुरङ्ग-ओलिम्पियाड्-प्रतियोगिता अस्ति । प्रारम्भे इदम् आयोजनं चतुरङ्गविश्वजयपात्र २०१९ इत्यनेन सह खाण्टी-मानसिय्स्क्-नगरे भवितव्यम् आसीत्, परन्तु मास्कोनगरे स्थानान्तरितम्, २०२० तमस्य वर्षस्य अगस्तमासस्य ५ तः १७ दिनाङ्कपर्यन्तं कालः निर्धारितः । तथापि कोविड्-१९ सर्व्वव्यापकरोगस्य विषये वर्धमानचिन्तानां फलस्वरूपं स्थगितम् अन्ततः युक्रेनदेशे रूसदेशस्य आक्रमणानन्तरं चेन्नैनगरं स्थानान्तरितम् ।

भागिनः योगसङ्ख्या १,७३६ अस्ति, स्वतन्त्रखण्डे ९३७, महिलाखण्डे ७९९ च । पञ्जीकृतदलानां सङ्ख्या स्वतन्त्रखण्डे १८६ राष्ट्रेभ्यः १८८ महिलाखण्डे १६० राष्ट्रेभ्यः १६२ च अस्ति । उभयखण्डे दलसहभागितायाः अभिलेखाः निर्धारिताः । चतुरङ्ग-ओलिम्पियाड्-प्रतियोगितायाः मुख्यस्थलं फोर् प्वाइण्ट् बाय् शेरटोन्-इत्यत्र सम्मेलनकेन्द्रम् अस्ति, उद्घाटनसमापनानुष्ठाने च जवाहरलालनेहरूक्रीडाङ्गणे आसीत् । अस्य आयोजनस्य मुख्यः मध्यस्थः फ्रान्सदेशस्य अन्तराष्ट्रियमध्यस्थः लॉरेण्ट् फ्रेड् महोदयः अस्ति ।

आयोजनम्[सम्पादयतु]

उद्घाटनानुष्ठनम्[सम्पादयतु]

उद्घाटनानुष्ठनम् २८ जुलाई दिनाङ्के १९:०० (भा॰मा॰स॰) वादने जवाहरलालनेहरूक्रीडाङ्गणे अभवत् । भारतीयप्रधानमन्त्री नरेन्द्र मोदी, तमिळ्नाडुमुख्यमन्त्री एम॰के॰ स्टालिन् महोदयः, फाइड् अध्यक्षः आर्केडी द्वोर्कोविच् महोदयः च अस्य आयोजनस्य उद्घाटनं कृतवन्तः ।

भाज्दलाः[सम्पादयतु]

अस्मिन् आयोजने १८६ राष्ट्रियसङ्घस्य प्रतिनिधित्वेन योगं १८८ दलाः प्रतिस्पर्धिताः सन्ति, येन नूतनः अभिलेखः स्थापितः । भारतम् आयोजकदेशत्वेन त्रीणि दलानि धारयति । महिलाप्रतियोगितायां १६२ दलानाम् अभिलेखः अस्ति, ये १६० सङ्घानां प्रतिनिधित्वं कुर्वन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]