मदनकेतुचरितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रामपाणिवादेन विरचितं प्रहसनं भवति मदनकेतुचरितम् । अस्मिन् द्वौ अङ्कौ स्तः । ११६ श्लोकाः सन्ति । लङ्कायाः राजा भवति मदनकेतुः । सः कलिङ्गराज्यं जित्वा कनिष्ठं मदनवर्माणं तत्र अभिषिञ्चति । लङ्कायां विष्णुमित्रो नाम संन्यासी अनङ्गलेखा इति प्रथितां वेश्यायाम् अनुरक्तो भवति । योगिनं प्रतिनिवर्तयितुं मदनवर्मा लाटदेशस्थस्य शिवदाययोगिनः साहाय्यं प्रार्थयति । तस्य साहाय्येन विष्णुमित्रं प्रतिनिवर्तयति च । नाटकस्यास्य सम्पादनं १९४८ तमे संवत्सरे केरलसर्वकलाशालातः कृतम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मदनकेतुचरितम्&oldid=409553" इत्यस्माद् प्रतिप्राप्तम्