रुद्रप्रयागमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रुद्रप्रयागमण्डलम्

Rudrapryag District
रुद्रप्रयाग जिला
रुद्रप्रयागमण्डलम्
रुद्रप्रयागमण्डलस्य शिवमन्दिरम्
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि रुद्रप्रयाग, उखीमठ, जखोली
विस्तारः २,४३९ च.कि.मी.
जनसङ्ख्या(२०११) २,४२,२८५
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८१.३०%
भाषाः गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://rudraprayag.nic.in/

रुद्रप्रयागमण्डलम् ( /ˈrʊdrəprəjɑːɡəməndələm/) (हिन्दी: रुद्रप्रयाग जिला, आङ्ग्ल: Rudraprayag District) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रुद्रप्रयाग इति नगरम् । रुद्रप्रयागमण्डलं जलपात-नदी-उपत्यकादिप्राकृतिकसौन्दर्येभ्यः प्रख्यातमस्ति ।

भौगोलिकम्[सम्पादयतु]

रुद्रप्रयागमण्डलस्य विस्तारः २,४३९ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि उत्तरकाशीमण्डलं, दक्षिणदिशि पौरीगढवालमण्डलं, पूर्वदिशि चमोलीमण्डलं, पश्चिमदिशि टिहरीगढवालमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

रुद्रप्रयागमण्डलस्य जनसङ्ख्या(२०११) २,४२,२८५ अस्ति । अत्र १,१४,५८९ पुरुषाः, १,२७,६९६ स्त्रियः, ३२,०४६ बालकाः (१६,८२३ बालकाः, १५,२२३ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.५३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१११४ अस्ति । अत्र साक्षरता ८१.३०% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९३.९०% स्त्री – ७०.३५% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- रुद्रप्रयाग, उखीमठ, जखोली

वीक्षणीयस्थलानि[सम्पादयतु]

रुद्रप्रयागः[सम्पादयतु]

अलकनन्दा-मन्दाकिनी-नद्योः तीरे स्थतमस्त्येतत् तीर्थक्षेत्रम् । अस्मिन् स्थले अलकन्दा-मन्दाकिन्योः सङ्गमो भवति । पुराणेषूल्लिखितं यत्, नारदः अस्मिन् स्थले यदा तपः आचरन् आसीत्, तदा शिवः तस्मै रुद्रावताररूपेण दर्शनं प्रादात् । तदारभ्य अत्र रुद्रमन्दिरमस्ति । अतः अस्य स्थलस्य नाम रुद्रप्रयाग इति ।

अगस्त्यर्षेः आश्रमः[सम्पादयतु]

रुद्रप्रयागात् अष्टादश (१८) कि.मी. दूरे स्थितः अगस्त्यर्षेः आश्रमः पौराणिकतथ्यान् सिद्धयति । पुराणानुसारम् अगस्त्यर्षिः तत्रैव तपस्तपति स्म । तत्र अगस्त्येश्वरमहादेवमन्दिरमस्ति । तस्मिन् मन्दिरे नित्यं भगवतः शिवस्य पूजा भवति । एतत् मन्दिरं स्थापत्यकलायाः उत्कृष्टम् उदाहरणमस्ति ।

अस्मिन् मण्डले अन्यानि वीक्षणीयानि स्थलानि सन्ति । यथा – गुप्तकाशी, जखोली, सोनप्रयाग, खिर्सू, गौरीकुण्डः, देवरीयाताल, उखीमठ, वासुकीताल ।

बाह्यानुबन्धः[सम्पादयतु]

http://rudraprayag.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/rudraprayag.htm

http://dcrud.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine

http://www.euttaranchal.com/uttaranchal/rudraprayag.php

http://timesofindia.indiatimes.com/topic/Rudraprayag-district

"https://sa.wikipedia.org/w/index.php?title=रुद्रप्रयागमण्डलम्&oldid=481772" इत्यस्माद् प्रतिप्राप्तम्