सामग्री पर जाएँ

कोयम्बत्तूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कोयम्बत्तूरु
—  जनपदम्  —
निर्देशाङ्काः

१०°४८′उत्तरदिक् ७७°००′पूर्वदिक् / 10.80°उत्तरदिक् 77°पूर्वदिक् / १०.८०; ७७

देशः भारतम्
राज्यम् तमिऴ्‌नाडु
मण्डलम् कोयम्बत्तूरु
लिङ्गानुपातः M-50.81%/F-49.19% /
साक्षरता 69%% 
व्यावहारिकभाषा(ः) तमिळ्भाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम् 4,850 वर्ग किलोमीटर (1,870 वर्ग मील)
वायुमण्डलम्

तापमानम्
• ग्रीष्मकालः
• शीतकालः



     35 °से (95 °फ़ै)
     18 °से (64 °फ़ै)

जालस्थानम् www.coimbatore.gov.in

भारते किञ्चन राज्यम् अस्ति तमिळ्नाडु । अस्मिन् राज्ये किञ्चन जनपदम् अस्ति कोयम्बत्तूरुजनपदम् (Coimbatore district)। अस्य मण्डलस्य केन्द्रम् अस्ति कोयम्बत्तूरु । राज्यस्य प्रमुखं द्वितीयं च महानगरं एतत् । एतत् “ कोवै ” इत्यपि इदानींतनव्यवहारे प्रख्यातम् अस्ति । अत्र विंशतिकोट्यधिकाः जनाः वसन्ति । एतत् शैक्षणिकक्षेत्रे अपि गणनीया प्रगतिः प्राप्ता अस्ति एतेन नगरेण । एतत् “कोङ्गुनाडु” प्रदेशे अन्तर्भवति । एतस्य “कार्पास नगरम् (काटन् सिटि), “औद्यमिकप्रदेशः(इण्डष्ट्रियल् एरिया) इत्यादि प्रख्यातिरप्यस्ति ।

नामकरणम्

[सम्पादयतु]

पुरा अस्मिन् प्रदेशे “कोसर्” इत्याख्याताः जनाः वसन्ति स्म इति कारणतः कोसन्पुदूर् इति नाम आसीत् । तदेव कालक्रमेण कोवन्पुदूर् कोयम्बुत्तूर् इत्यभवत् । ब्रिटीष् जनानम् आगमनानन्तरं कोयम्बतूर् इति अभवत् । अधुना अपि तथैव प्रचलने अस्ति ॥

इतिहासः

[सम्पादयतु]

कोयम्बत्तूर् नगरे प्रथमतया “कोसर्” इत्याख्याताः जनाः वसन्तः आसन् । तदनन्तरं ९ शतमाने द्वितीय चोलराजः स्वीय राज्यभारसमये स्वाधीनतया एतन्नगरं स्वीकृतवान् । तदा “कोनियम्मा” इत्यख्यातायाः देव्यायाः देवस्थानमधिकृत्य नगरवत् निर्मितवान् । किञ्चित् कालानन्तरं १४ तमे शतमाने देहली सुल्तानानां अधीनतया ये तुरुकाः आसन् । ते राज्यभारं कृतवन्तः । तदनन्तरं विजयनगरस्य महाराजा तुरुकैस्सह विजित्यनगरं स्वाधीनं स्वीकृत्य राज्यभारं अकरोत् । तदा विजयनगरस्य राज्ञः सेनानायकाः तेलुगुसंभाषकाः आसन् । ते राज्ञा दूरीकृय एतन्नगरं अपहृतवन्तः ।

अथ मैसूरु महाराजा १७ तमे शतमाने तैस्सह युद्धे जयघोषं प्राप्य मैसूरु नगरेन साकं योजितवान् । १७ शतमानस्य अन्त्ये ब्रिटीष् सैन्यः मैसूरु महाराजानं जित्वा पुनः तमिळुनाडु राज्ये एव योजितवन्तः । तदनन्तरं १८४८ तमे वर्षे कोयम्बुत्तूर् ग्रामः कोयम्बतूर् नगरं इत्यभवत् । तदा प्रथमतया नायकत्वेन “सर् राबर्ट् स्टेन्स्” असीत् । सः १८६२ तमे वर्षे “स्टेन्स्” इति विद्यालमेकं प्रारब्दवान् । तत् इदानीमप्यस्ति । १९३० तम वर्षानन्तरं अतिशीघ्रतया एतन्नगरस्य अभिवृद्धिः अभवत् । तन्मध्ये १९८१ तमे वर्षे “सिङ्गानळ्ळूर्” इति समीपस्थ प्रदेशस्य योजनेन एतत् कोयम्बत्तूर् नगरं महानगरं अभवत् । अत्र नोय्यल् इति नदी वहति च ।

भौगोलिकम्

[सम्पादयतु]

कोयम्बत्तूरुमण्डलं तमिऴ्नाडुराज्यस्य पश्चिमभागे अस्ति । प्राक्काले अयं प्रदेशः कोङ्गुनाडुनः भागः आसीत् । अस्य पश्चिमभागे केरलराज्यस्य पालक्काडजनपदम्, उत्तरे नीलगिरीजनपदम्, ईशान्ये पूर्वदिशि च ईरोडुजनपदम्, दक्षिणे केरलस्य इडुक्किजनपदम्, आग्नेये दिण्डुक्कलमण्डलं च अस्ति । मण्डलस्य विस्तारः ७६४९ चतुरश्रकिलोमीटर् ।

कोयम्बत्तूरुमण्डलस्य नैर्ऋत्यभागाः उत्तरभागाः च पर्वतप्रदेशाः । अत्र पश्चिमघट्टानां प्रभावेण आवर्षं सुखकरः वायुगुणः भवति । मण्डलस्य पश्चिमभागे पालक्काड् छिद्रः अस्ति । तमिऴ्नाडु, केरलराज्ययोः मध्ये विद्यमानेषु पश्चिमघट्टपर्वतेषु अयम् एकः एव छिद्रः, येन उभयोः राज्ययोः सम्पर्कः साध्यते । अस्य द्वारा कोयम्बत्तूरु पालक्काडनगरयोः मध्ये सम्पर्कः भवति ।

भवानी, नोय्यल्, अमरावती, अलियारुः च मण्डले प्रवहन्त्यः प्रमुखाः नद्यः । सिरुवनिजलबन्धः कोयम्बत्तूरुनगरं प्रति पेयजलं प्रयच्छति । अस्य जलस्य माधुर्यं प्रसिद्धम् अस्ति । चिन्नकल्लारुजलधारा, वानरजलधारा, सेङ्गुपतिजलधारा, सिरुवनिजलधारा, तिरुमूर्तिजलधारा, वैदेहिजलधारा च मण्डले सन्ति ।

जनसंख्या

[सम्पादयतु]

२०११ तमवर्षस्य जनगणनानुगुणं कोयम्बत्तूरुमण्डलस्य जनसंख्या ३,४७२,५७८ । अस्य मण्डलस्य जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ७४८ अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १८.४६% आसीत् । अस्मिन् मण्डले पुं, स्त्री अनुपातः १०००:१००१ अस्ति ।

उपमण्डलानि

[सम्पादयतु]

कोयम्बत्तूरुमण्डले पञ्च उपमण्डलानि सन्ति –

१) उत्तरकोयम्बत्तूरुः
२) दक्षिणकोयम्बत्तूरुः
३) पश्चिमकोयम्बत्तूरुः
४) पोळ्ळाचिः
५) मेट्टुपाळैयम्

कृषिः वाणिज्यं च

[सम्पादयतु]
A wind farm outside the city limits.

कोयम्बत्तूरुमण्डले वस्त्रोद्यमः प्रमुखः । एतेन कारणेन एव अयं दक्षिणभारतस्य माञ्चेस्टर् इति प्रसिद्धः अस्ति । भारतस्य वस्त्रोद्यमयन्त्रागारेषु अग्रगण्यः ‘लक्ष्मी मेषिन् वर्क्स् लिमिटेड्’ कोयम्बत्तूरौ एव अस्ति ।

कोयम्बत्तूरुप्रदेशे अनेके विद्युच्चालित पम्प् निर्माणसंस्थाः सन्ति । तेषु डेक्कन्, सि.आर्‌.ऐ, टेक्स्मो, ‍के.एस्.बी, शार्प् इत्येते प्रमुखाः । वाहनावयवनिर्माणसंस्थाः रूट्स्, प्रैकाल्, एल्‌.जि.बि. प्रभृतयः अत्र सन्ति । जर्मन् संस्थायाः राबर्ट् बाष् इत्यस्याः संशोधना, उत्पादनकेन्द्रम् अत्र अस्ति । ऐ.टि.बि.पि.ओ. संस्थाः अपि अधिकसंख्यायां कोयम्बत्तूरौ सन्ति ।

पोळ्ळाचि उपमण्डले कृषिः प्रधानतया दृश्यते । सस्येषु प्रमुखानि तिलः, कार्पासः, नारिकेलः, पूगः, व्रीहिः, तण्डुलः, इक्षुः, टी, काफ़ी, मरीचिका, इत्यादयः । तमिऴ्नाडुराज्ये अत्यधिकप्रमाणस्य तिलस्य उत्पादनम् अत्र भवति (३४%) ।

वीक्षणीयस्थलानि

[सम्पादयतु]
कारिमोटर् स्पीड्वे

इन्दिरागान्धिराष्ट्रोद्यानं संरक्षितवन्यधाम च

[सम्पादयतु]

नीलगिरिजीविवैविध्यप्रान्तस्य हृदयभागे इदं राष्ट्रोद्यानं संरक्षितारण्यं च अस्ति । अत्र पश्चिमघट्टप्रदेशस्य बहुविधाः प्राणिनः सस्यानि च दृश्यन्ते । २००० प्रभेदानां सस्यानि अत्र रोहन्ति, येषु ४०० प्रभेदाः औषधीयगुणवत्तया बहुमूल्याः । व्याघ्राः, चित्रव्याघ्राः, स्लात् भल्लूकाः, गजाः, चिक्रोडाः च अस्मिन् राष्ट्रोद्याने वसन्ति । नीलगिरि वुड् पिजन्, नीलगिरि पल्पिट्, नीलगिरि फ़्लैक्याचर्, मलबार् ग्रे हार्न्बिल्, स्पाट् बिल्ड् पेलिकन् प्रभृतयः पक्षिप्रभेदाः अपि अत्र द्रष्टुं शक्याः ।

अऴियारुजलबन्धः

[सम्पादयतु]

अयं जलबन्धः कोयम्बत्तूरुनगरात् ६५ किलोमीटर् दूरे आनैमलैगिरेः पादप्रदेशे अस्ति । अनेन जलबन्धेन निर्मितः जलाशयः ६.४८ चतुरश्रकिलोमीटर् विस्तीर्णः अस्ति । जलबन्धं परितः उद्यानं, क्रीडाङ्गणं, मत्स्यालयः, प्रदर्शिनी च अस्ति । नौकायानव्यवस्था अपि कल्पिता अस्ति ।

सिरुवनिजलधारा जलबन्धः च

[सम्पादयतु]

कारुण्यविश्वविद्यालयतः ६ किलोमीटर् दूरे इयं जलधारा अस्ति । कोयम्बत्तूरुनगरस्य पेयजलप्राप्त्यर्थम् अत्र जलबन्धः निर्मितः । अत्र निसर्गः अतिरमणीयः मनोहारि च दृश्यते ।

वाल्पारै गिरिधाम

[सम्पादयतु]

पश्चिमघट्टप्रदेशस्य आनैमलै गिरिश्रेण्यां समुद्रस्तरात् ३५०० पादानाम् औन्नत्ये इदं गिरिधाम अस्ति । इदं कोयम्बत्तूरुनगरात् १०० किलोमीटर् दूरे, पोळ्ळाचितः ६५ किलोमीटर् दूरे च अस्ति । अत्र टी क्षेत्राणि परितः नित्यहरिद्वर्णवनानि दृश्यन्ते । गजानां, व्याघ्राणां, वन्यसूकराणां, वानरप्रभेदानां, हरिणानां, चिक्रोडानां च वासस्थानम् इदम् । वन्यधाम्नः अन्तः वानरजलधारा अस्ति । बालाजीदेवालयः अपि अस्ति ।

पट्टीश्वरस्वामिदेवालयः

[सम्पादयतु]

कोयम्बत्तूरुनगरस्य पेरूरुप्रदेशे अयं देवालयः अस्ति । अयं देवालयः चोळानां सामन्तैः पाळैयकारराजैः निर्मितः । देवालयस्य निर्माणकालः क्रिस्तीय ११-१३ शतकानि । अरुणगिरिनाथस्य, काच्चियप्पमुनिवरस्य च रचनासु अस्य देवालयस्य उल्लेखः दृश्यते । परमेश्वरः अत्र पट्टीश्वरनाम्ना आराध्यते । तस्य महिषी देवी पञ्चनायकी । अत्रत्यः विशेषः यत् प्रतिदिनं प्रायः १०० मुस्लिमसमुदायस्य जनाः अत्र सश्रद्धम् आगत्य दीपान् ज्वलयन्ति ।

मरुदमलैसुब्रह्मण्यदेवालयः

[सम्पादयतु]

मरुदमलैनामकस्य गिरेः उपरि अयं कार्त्तिकेयस्य देवालयः अस्ति । अयं गिरिः कोयम्बत्तूरुनगरात् १५ किलोमीटर् पश्चिमतः अस्ति । अयं देवालयः १२०० वर्षेभ्यः प्राचीनः ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कोयम्बत्तूरुमण्डलम्&oldid=249057" इत्यस्माद् प्रतिप्राप्तम्