पूर्वसिक्किममण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

East sikkim district
मण्डलम्
सिक्किमराज्ये पूर्वसिक्किममण्डलम्
सिक्किमराज्ये पूर्वसिक्किममण्डलम्
देशः  India
जिल्हा पूर्वसिक्किममण्डलम्
विस्तारः ९६४ च.कि.मी.
जनसङ्ख्या(२०११) २,८३,५८३
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
http://kvkeastsikkim.nic.in/About_KVK/profile_sikkim.htm
भारतदेशे सिक्किमराज्यम्
अन्ताराष्ट्रिय-पुष्पोत्सवः
सिक्किम-संशोधन-केन्द्रस्य सङ्ग्रहालये बुद्धविग्रहः

पूर्वसिक्किममण्डलं (आङ्ग्ल: East sikkim District) सिक्किमराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं गङ्गटोक इत्येतन्नगरम् ।

भौगोलिकम्[सम्पादयतु]

पूर्वसिक्किममण्डलस्य विस्तारः ९६४ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि भूतानदेशः, पश्चिमदिशि दक्षिणसिक्किममण्डलम्, उत्तरदिशि उत्तरसिक्किममण्डलं, दक्षिणदिशि पश्चिमबङ्गालराज्यम् अस्ति । मण्डलेऽस्मिन् ३८९४ मि.मी.मितः वार्षिकवृष्टिपातः भवति । पर्वतीयप्रदेशः एव अस्ति एषः ।

जनसङ्ख्या[सम्पादयतु]

दक्षिणसिक्किममण्डलस्य जनसङ्ख्या(२०११) २,८३,५८३ अस्ति । अस्मिन् १,५१,४३२ पुरुषाः, १,३२,१५१ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे २९७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.७३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८७३ अस्ति । अत्र साक्षरता ८३.८५ % अस्ति । मण्डलेऽस्मिन् ५६.८१% जनाः ग्रामेषु निवसन्ति ।

कृषिः उद्यमश्च[सम्पादयतु]

कृषिः एव अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । तण्डुलः, किणः(maize), बाजरी(finger millet), क्षुज्जनिका(mustard), चायं(tea), काफीबीजं(coffee), रबर, सोयाबीन, नारङ्गफलम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । पशुपालनं, वने फल-काष्ठान्वेषणं, मत्स्यव्यवसायः अपि जनैः उपजीविकात्वेन क्रियते ।

उपमण्डलानि[सम्पादयतु]

  • गङ्गटोक
  • पेक्योङ्ग
  • रोङ्ग्ली

लोकजीवनम्[सम्पादयतु]

अत्रस्था कृषिः, कृष्यवलम्बितसमाजः, मठायतनानि, निसर्गसौन्दर्यं च विशेषाः सन्ति । कृषिः, कृष्यवलम्बितव्यवसायाः, पर्यटनव्यवसायश्च अत्रस्थप्रमुखोपजीविकासाधनानि । सिक्किमराज्ये प्रसिद्धेषु स्थानेषु अन्यतमं 'गङ्गटोक' इत्येतन्नगरं राज्य-उद्योगकेन्द्रत्वेन वर्तते । अतः पर्यटनव्यवसायार्थम् अनुकूलवातावरणं वर्तते अत्र ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • हस्तोद्योगव्यापारकेन्द्रम् (Handicraft Bazaar)
  • Flower Festival - पुष्पोत्सवः
  • White House
  • Ridge Garden
  • दो-ड्रुल् स्तूपः(Do-Drul Chorten)
  • सिक्किम-संशोधन-केन्द्रम् - Sikkim Research Institute Of Tibetology
  • Sikkim Time Corporation(SITCO)- सिक्किमराज्ये स्थापितं प्रप्रथमम् उद्योगकेन्द्रम् ।
  • रुमटेक् धर्मचक्रकेन्द्रम्
  • ताशी व्ह्यू पोईण्ट - इतः काञ्चनजङ्गा-शिखरस्य मनोहारि दृश्यं द्रष्टुं शक्यते ।
  • गणेश-टोक
  • हनुमान-टोक
  • फेम्बोङ्ग अभयारण्यम्
  • क्योङ्ग्नोस्ला अल्पाइन् अभयारण्यम्
  • नथुला पास् - ऐतिहासिकं स्थलम्
  • त्सोम्गो सरोवरः
काञ्चनजङ्गा हिमालयस्थं शिखरम्

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पूर्वसिक्किममण्डलम्&oldid=481658" इत्यस्माद् प्रतिप्राप्तम्