शाकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आहारार्थं कर्मकुर्यादनिन्द्यम् ।
कुर्यादाहारं प्राणसंरक्षणार्थम् ।
प्राणा रक्ष्याः तत्त्वजिज्ञासार्थम् ।
तत्त्वं जिज्ञास्यं येन भूयो न दुःखम् ॥

अयं श्लोकः मानवः किमर्थम् आहारं स्वीकरोति इति अंशं स्पष्टयति । आहारेण विना वयं न जीवामः । किन्तु पशुपक्षिवत् वयम् आहर्तुं न शक्नुमः । प्रकृत्या एतानि पदार्थानि चित्वा संस्कृत्य अन्नत्वेन खादामः । मानवः मूलरूपेण शाकाहारी एव । अतः कानिचन सस्यानि नित्याहारे वयम् उपयोगं कुर्मः । अस्मिन् तेषां पाकोपयोगिनां शाकानां विषये पठामः ।

"https://sa.wikipedia.org/w/index.php?title=शाकम्&oldid=434386" इत्यस्माद् प्रतिप्राप्तम्