वाली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वाली सुग्रीवस्य अग्रजः । एकदा ऋक्षरजाः एकस्मिन् सरसि स्नात्वा स्त्रीरूपं प्राप्तवान् । तं दृष्ट्वा आकृष्टः इन्द्रः वालिनः पिता । तारा अस्य पत्नी । अङ्गदः वालिनः पुत्रः । महापराक्रमवान् अयम् एकवारं रावणमपि पराजितवानासीत् ।

वरप्राप्तिः[सम्पादयतु]

वालिनः कृते देवेन्द्रः वररूपेण एकं सुवर्णहारं दत्तवान् आसीत् । तं हारं धृत्वा युद्धार्थं यदि गच्छति तर्हि तत्पुरतः विद्यमानस्य विरोधिनः तदर्धं बलं वाली प्राप्नोति स्म ।

मुनिशापः[सम्पादयतु]

एकदा मयासुरपुत्रः दुन्दुभिनामकः दैत्यः महिषवेषं धृत्वा युद्धार्थं किष्किन्धामागतवान् । वाली तेन सह युद्धं कृत्वा मारितवान् । तस्य मृतशरीरं सुदूरं क्षिप्तवान् ।ऋष्यमूकपर्वते मतङ्गनामा मुनिः तपः आचरन् आसीत् । वालिना क्षिप्तं शरीरं मुनेः आश्रमप्रदेशे पतितम् । कुपितः मुनिः,यदि ऋष्यमूकपर्वतं प्रति वालिनः आगमनं भवति तर्हि तस्य मरणं भवत्विति शापं ददाति ।

भ्रातृकलहः[सम्पादयतु]

मायावीनामा कश्चन असुरः वालिना सह युद्धार्थं किष्किन्धामागतवान् । तेन सह एकस्यां गुहायां वाली युद्धं कुर्वाण आसीत् । युद्धं बहुकालपर्यन्तं प्राचलत् । सुग्रीवः गुहायाः बहिः प्रतीक्षमाणः आसीत्। गुहातः रक्तप्रवाह आरब्धः । अग्रजः मृत इति विचिन्त्य सुग्रीवः किष्किन्धामागत्य सिंहासनमधिरूढः । किञ्चित्कालानन्तरं प्रत्यागतः वाली सिंहासने उपविष्टं सुग्रीवं दृष्ट्वा कुपितो भूत्वा अनुजं सुग्रीवं सिंहासनात् आकृष्य कलहमारब्धवान् । वालिनः भयात् सुग्रीवः ऋष्यमूकपर्वतं प्रति पलायितवान् । वाली सुग्रीवस्य पत्न्या रुमया सह रममाण आसीत् ।

वालीवधः[सम्पादयतु]

सीतापहरणानन्तरं सीतामन्विषन् ऋष्यमूकपर्वतमागतस्य श्रीरामचन्द्रस्य सुग्रीवेण सह मेलनमभवत् । तेन सह मैत्री च समजायत । सीतान्वेषणे सुग्रीवः वानरसैन्येन सह स्वस्य साहाय्यमाचरितवान् । अग्रजं वालिनं हन्तुं सुग्रीवः श्रीरामस्य साहाय्यं प्रार्थितवान् । श्रीरामः सुग्रीवमुखात् वालिनः बलविषयिणीं वार्तां ज्ञात्वा वालिनं युद्धार्थमाह्वातुं प्रेरितवान् । वालीसुग्रीवयोः युद्धावसरे श्रीरामः निलीय शराघातेन वालिनः वधं समाचरितवान् ।

श्रेणी:रामायणम्

श्रेणी:निर्वाचित लेख

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वाली&oldid=482923" इत्यस्माद् प्रतिप्राप्तम्