मल्लः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१६ जनपदान् दर्शयत् मानचित्रम्

मल्लाः बौद्धजैनलेखेषु पौनःपुन्येन उल्लिखिताः सन्ति । भारतस्य उत्तरभागे वसन्तः अत्यन्तः बलशालिनः आसन् मल्लाः । वाल्मीकिरामायणम्नुसारं लक्ष्मणःस्य पुत्रः चन्द्रकेतुः मल्लयुद्धप्रवीणः आसीत् । तस्मै पिता लक्षमणः एव "मल्ल" इति बिरुदं दत्तवान् आसीत् । तदनन्तरं तद्वंशीयाः "मल्लाः" इत्येव नामाङ्किताः अभवन् । चन्द्रकेतोः राजधानी आसीत् चन्द्रकान्तपुरम् (इदानीन्तनकुशिनगरम्) । सः "कुरुप्रत"प्रदेशे शासनम् अकरोत् । सः प्रदेशः वाल्मीकिरामायणे "मल्लभूमिः" "मल्लराष्ट्रम्" इति उल्लिखितम् अस्ति । महाभारतानुसारं पाण्डुपुत्रः भीमः पौरात्यभारते दण्डयात्रावसरे मल्लानां प्रमुखेण सह युद्धं कृत्वा जयं प्राप्नोत् । बुद्धस्य अवधौ मल्लाः नवसहायकसमूहसम्बद्धानां नवभूक्षेत्रयुक्तानां गणाराज्यानां परमाधिकारिणः आसन् । तानि गणराज्यानि "गण" इति कथ्यन्ते स्म । तेषु नवसहायकसमूहेषु समूहद्वयं प्रमुखम् अस्ति । एकः समूहः "कुशिनारा"नगरं (इदानीन्तनगोरखपुरसमीपे विद्यमानम् आधुनिक"काशिया"नगरम्) राजधानीं कृत्वा तत्परितः शासनं करोति स्म । अपरः च समूहः "पावा"नगरं (आधुनिक"पद्रौन"नगरम्, "काशिया"नगरतः १२ मैलदूरे अस्ति) राजधानीं कृत्वा तत्परितः शासनं करोति स्म । बुद्धस्य अवधौ एते प्रमुखनगरे आस्ताम् । बुद्ध-जैनतत्त्वानाम् इतिहासे एते अत्यन्तं पवित्रे नगरे । भगवान् बुद्धः कुशिनारायां भगवान् महावीरः च पावापुर्यां स्वजीवनस्य अन्तिमभोजनं कृतवन्तौ आस्ताम् । भगवान् बुद्धः पावापुर्यम् अस्वस्थः जातः कुशिनारायां दिवङ्गतः । भगवान् महावीरः पावापुर्यामेव दिवङ्गतः । कुशिनगरम् इदानीमपि बौद्धानां यात्रास्थानम् अस्ति । उत्तरप्रदेशसर्वकरस्य प्रवासोद्यम-अभिवृद्धि-मण्डलीद्वारा तत्क्षेत्रस्य अभिवृद्धिः महता प्रमाणेन कृता अस्ति ।

लिच्चविसदृशाः मल्लाः मनुस्मृतौ "व्रात्याक्षत्रियाः" इति उल्लिखिताः सन्ति । मल्लानां राजत्वस्वरूपस्य सर्वकारः आसीत् । कालानतरे "सङ्घ" इति नाम्ना कथ्यमानस्य गणराज्यस्वरूपं प्राप्तं तेन सर्वकारेण । तस्य गणराज्यस्य सदस्याः सर्वे आत्मनं राजा इत्येव कथयन्ति स्म । मल्लाः धैर्यशालिनः युद्धप्रियाः च आसन् । प्राचीनसन्ततेः प्रभावात् क्षत्रियेषु श्रेष्ठाः वयम् इति चिन्तयन्ति स्म मल्लाः । मल्लेषु केचन बौद्धमतस्य केचन जैनमतस्य च अनुयायिनः आसन् । बुद्धस्य अवधौ मल्लेषु नवजनाः राजानः आसन् । कालान्तरे तेषां राज्यानि मगधराज्ये अन्तर्भूतानि । मल्लवंशीयाः इदानीमपि गोरखपुरे कुशिनगरे तत्परितः च सन्ति ।

लिच्चवि-कोलिया-शाक्यसदृशैः सङ्घीयक्षत्रियैः सह मल्लाः शान्तनगरस्य शासनं कुर्वन्ति स्म । बौद्धमतस्य प्राबल्यं यदा न्यूनम् अभवत् तदा बौद्धधर्मस्य अनुयायिनः गणराज्यक्षत्रियाः [[हिन्दुधर्मः|हिन्दुमतावलम्बिनः अभवन् । एते शान्तनगरस्य क्षत्रियाः सामाजिकव्यवस्थायां वैदिकक्षत्रियाणाम् अनन्तरस्थाने आसन् । एते मल्लाः भिन्नाः डिजोरियास्थाः "मजौली"मल्लाः च भिन्नाः एव । मलौलीमल्लाः जनप्रियस्य तपस्विनः मयूरभट्टस्य वंशीयाः । मयूरभट्टः ऋषेः जमदग्नेः वंशीयः । सूरजवंशीया "सूर्यप्रभा" मयूरभट्टस्य पत्नी । तयोः पुत्रः "बिस्वसेनः" । सः बिस्वसेनः एव "बिसेन् रजपूत"वंशस्य प्रथमव्यक्तिः । बिस्वसेनस्य वंशीयः ८०तमः राजा हर्डियोसेनः ११ शतके वीरत्वकारणतः देहल्याः राज्ञः "मल्ल" इति बिरुदं प्राप्तवान् आसीत् । मध्ययुगे बिसेन्मल्लवंशस्य केचन सदस्याः नेपालदेशं गतवन्तः इति श्रूयते । नेपाले इदानीमपि तान् "माल्लराजाः" इति वदन्ति ।

"https://sa.wikipedia.org/w/index.php?title=मल्लः&oldid=366099" इत्यस्माद् प्रतिप्राप्तम्