तस्मान्नार्हा वयं हन्तुं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७ ॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य सप्तत्रिंशत्तमः (३७) श्लोकः ।


पदच्छेदः[सम्पादयतु]

तस्मात्, न, अर्हाः, वयम्, हन्तुम्, धार्तराष्ट्रान्, स्वबान्धवान् । स्वजनम्, हि, कथम्, हत्वा, सुखिनः, स्याम, माधव ॥

अन्वयः[सम्पादयतु]

माधव ! तस्मात् वयं स्वबान्धवान् धार्तराष्ट्रान् हन्तुं न अर्हाः । स्वजनं हि हत्वा कथं सुखिनः स्याम ?

शब्दार्थः[सम्पादयतु]

माधव = हे रमापते !
तस्मात् = तस्मात् कारणात्
स्वबान्धवान् = निजबन्धून्
धार्तराष्ट्रान् = कौरवान्
वयम् = वयम्
हन्तुम् = विनाशयितुम्
न = नहि
अर्हाः = योग्याः
हि = यस्मात्
स्वजनम् = निजजनम्
हत्वा = विनाश्य
कथम् = केन प्रकारेण
सुखिनः = सन्तुष्टाः
स्याम = भवेम ।

अर्थः[सम्पादयतु]

अतः स्वबान्धवान् धृतराष्ट्रपुत्रान् एतान् कौरवान् हन्तुं वयं न अर्हाः । स्वबान्धवान् एव हत्वा वयं कथं वा सुखिनः भवेम ?

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.gitasupersite.iitk.ac.in


भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः[सम्पादयतु]