सम्बर्त्तस्मृतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सम्बर्त्तस्मृतावस्याम् आचारव्यवहाराभ्यां समं प्रायश्चित्ते यथा महत्त्वं प्रदीयते, ततोऽधिकतरं महत्त्वं दानमाहात्म्येऽस्तीति सर्वथा परिलक्ष्यते । आचार-व्यवहार -प्रायश्चित्तविषया इतरासु स्मृतिषु चर्चिता बभूवुः। अतः सम्वर्तो दानेऽधिकतरां चर्च्चां चकार । अस्य स्मृतिकारस्य मतानुसारेण गोहिरण्यभूमिप्रभृतीनां मूल्यवतां वस्तूनां सम्प्रदानेन तथा पुण्योदयो जायते, यथैव प्रयोजनानुसारेण दैनन्दिनव्यवहार मार्गतानां केषांचनापि वस्तूनाम् प्रयोजनम् नितराम् अनुभूयते इन्धनप्रदानेनाग्नेः प्रखरता यथोत्तरोत्तरम् अभिवर्धते । अस्यां सम्वर्तस्मृतौ मद्यपायिनां महती निन्दा प्रवर्त्तते । तेषां मद्यपानासक्तानं खलु समाजे स्थानं भुशम् अधस्तनमिति वर्णितमस्ति । तादृशं समाजगर्हितं निन्द्यं कर्माचारवतां दुष्टस्वभावानां जनानां तीव्रा निन्दा जायते । पापनां परिणाम तारतम्यं दृष्ट्वापि प्रायश्चित्तं यताविधि तेन सम्वर्त्तेन वर्णितमस्ति ।

गायत्रीजपेन पापखण्डनम् अवश्यं भवतीति तेन भणितम् । किंप्रकारेण जपविधिना कीदृशस्य पापस्य खण्डनं भवतीति विषये विस्तरेणा गायत्र्या माहात्म्यं वर्णितमस्ति । सदा दानादि-पुण्यकर्मसु तथा जपादिविधिषु यजमानस्य श्राद्धविश्वासाभ्यां सर्वथा भाव्यमिति तेन कथितम् । समाजस्य लोकरुचिः यथा -परिवर्त्तते दिने दिने, तथैवास्यां स्मृतावपि प्रायश्चित्तादिव्यवस्थायां परिवर्त्तनं किञ्चन लक्ष्यत एव । सम्वर्त्तस्मृतौ २२७ श्लोकाः सन्ति । अत्राध्यायक्लृप्तिर्नास्ति । सम्पूर्णायां स्मृतौ ब्रह्मचर्यवर्णनम्, अशौचवर्णनम्, कन्याविवाहवर्णनम्, दानस्य फलमहत्त्वादीनां वर्णनम् पापानां प्रायत्ताविधानम्, गौवधप्रायश्चित्तम अगम्यगमन-प्रायश्चित्तम्, दृष्टानां निष्कृतिवर्णनम् अभक्ष्यभक्षण्-प्रायश्चितम् प्रायश्चिते गायत्र्या महत्त्ववर्णनम् वेदाभ्यासेन पापात् शुद्धयादिकमपि विचारितमस्ति । अस्यां स्मृतौ सम्वर्तेन धर्मशास्त्रस्य चान्द्रायणव्रतादिना महत् पुण्यं भवतीति भणितमस्ति, यथा-

चान्द्रायणन्तु सर्वेषां पापानां पावनं वरम् ।
कृत्वा शिद्धिमवाप्नोति परमं स्नानमेव च ॥
धर्मशास्त्रमिदं पुण्यं सम्बर्त्तेन तु भाषितम् ।
अधीत्य ब्राह्मणो गच्छेद् ब्रह्मणः सदम् शाश्वतम् ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सम्बर्त्तस्मृतिः&oldid=481063" इत्यस्माद् प्रतिप्राप्तम्