संन्यासस्तु महाबाहो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्लोकः[सम्पादयतु]

गीतोपदेशः
सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य षष्टः(६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

सन्न्यासः तु महाबाहो दुःखम् आप्तुम् अयोगतः योगयुक्तः मुनिः ब्रह्म न चिरेण अधिगच्छति ॥ ६ ॥'

अन्वयः[सम्पादयतु]

महाबाहो ! सन्न्यासः तु अयोगतः आप्तुं दुःखम् । योगयुक्तः मुनिः नचिरेण ब्रह्म अधिगच्छति ।

शब्दार्थः[सम्पादयतु]

महाबाहो = हे अर्जुन !
सन्न्यासः तु = ज्ञानयोगः तु
अयोगतः = कर्मयोगं विना
आप्तुम् = लब्धुम्
दुःखम् = कष्टम्
योगयुक्तः = फलनिरपेक्षः कर्मयुक्तः
मुनिः = शान्तः पुरुषः
नचिरेण = शीघ्रम्
ब्रह्म = परामात्मानम् ।
अधिगच्छति = प्राप्नोति ।

अर्थः[सम्पादयतु]

महाबाहो ! कर्मयोगात् ऋते ज्ञानयोगस्य प्राप्तिः दुश्शका एव । कर्मयोगी मुनिः तु शीघ्रं ब्रह्म अधिगच्छति ।

शाङ्करभाष्यम्[सम्पादयतु]

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
यत्साङ्ख्यैः प्राप्यते स्थानं...
संन्यासस्तु महाबाहो... अग्रिमः
योगयुक्तो विशुद्धात्मा...
संन्यासस्तु महाबाहो...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=संन्यासस्तु_महाबाहो...&oldid=408581" इत्यस्माद् प्रतिप्राप्तम्