सातोड्डीजलपातः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सातोड्डीजलपातः

सातोड्डीजलपातः (Satoddi Falls) कर्णाटकस्य उत्तरकन्नडमण्डलस्य यल्लापुरौपमण्डले सातोड्डि इत्येतस्य ग्रामस्य समीपे काननमध्ये अस्ति । अस्य दब्बेसालुजलपातः इत्यपि कथयन्ति । बेङ्गलूरुतः ४५० कि.मी. दूरे हुब्बळ्ळितः ६० कि.मी. दूरे अस्ति यल्लापुरपत्तनम् । अत्र कालीनदी ३०० पादपरिमितात् औन्नत्यात् पतति । कर्णाटकस्य सर्वप्रमुखस्थलेभ्यः यल्लापुरपर्यन्तं लोकयानेन गन्तुं शक्यते । यल्लापुरतः भाटकयानानि अवलम्ब्य जलपातपर्यन्तं १५ कि.मी.यावत् गन्तव्यं भवति । यल्लापुरपत्तने वासभोजनादिव्यवस्थाः सन्ति एव । राजधानीतः रेल्-यानेन गन्तुम् इच्छति चेत् हुब्बळ्ळि पर्यन्तं गत्वा ततः बस् यानेन यल्लापुरं प्राप्तुं शक्यते ।

समीपे विद्यमानानि अन्यानि दर्शनीयस्थानानि नाम… कवडिकेरे इति विशालं सरः, जेनुकल् गुड्ड, पर्वतशिखरप्रदेशः यतः अस्तमानः सूर्यः बहुरमणीयतया दृश्यते, मागोडुजलपातः, शिरसिप्रदेशस्य मारिकाम्बा मन्दिरम्, बनवासीक्षेत्रम्, उञ्चळ्ळिजलपातः, दाण्डेलीप्रदेशस्य अभयारण्यम् इत्यादीनि सन्ति । निसर्गधाम इति रेसोर्ट् मध्ये सामान्यसुखव्यवस्था वासाय उपलभ्यते । अथवा बनान-कौण्टि इति स्टार्-रेसोर्ट् मध्ये अतिसुखव्यवस्थायां वासदिव्यवस्थां प्राप्तुं शक्नुवन्ति । उभावपि काननमध्ये रमणीये प्रदेशे स्तः ।

आधारः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सातोड्डीजलपातः&oldid=389129" इत्यस्माद् प्रतिप्राप्तम्