गेरुसोप्पजलपातः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


जोगजलपातः(गेरुसोप्पजलपातः) कर्णाटकराज्यस्य शिवमोग्गामण्डलस्य उत्तरकन्नडमण्डलस्य च सीमायाम् अस्ति| प्रादेशिकभाषया जोग इति पदस्य अर्थः एव जलपातः इति । गेरुसोप्पे जलपातः इत्यपि अस्य नाम । जगति प्रसिद्धेषु जलपातेषु अस्य नाम अपि अस्ति । एषः उत्तरकन्नडशिवमोग्गमण्डलयोः सीमाप्रदेशे शरावततीनद्याः पातः । जोगजलपातः भारतस्य अत्युन्नतः जलपातः इति ख्यातः । जलपातस्य दीर्घता २९२मी. अस्ति । अत्र नदी शारावती राजा,घोषः, वनिता, बाणः इति चतसृषु शाखासु विभक्ता अधः पतति । राजधानी बेङ्गळूरुतः ४०० कि.मी.दूरे गेरुसोप्पे प्रदेशः अस्ति । शिवमोग्गमण्डलस्य सागरपत्तनतः दोड्डमने मार्गे ३०कि.मी. दूरं गच्छति चेत् जोगजलपातः लभ्यते । उत्तरकन्नडमण्डलस्य होन्नावरतः अपि गन्तुं शक्यते । ततः ६०कि.मी.दूरं भवति । बेङ्गळूरुतः सागरपर्यन्तं बस् यानेन गत्वा ततः भाटकयानेन गमनं सुकरम् । रेल् यानप्रवासः आवश्यकः चेत् शिवमोग्गा अथवा ताळगुप्प रेल् निस्थानके समीपे भवतः । वासभोजनादिव्यवस्थाः सागरपत्तने एव भवन्ति । स्वकीययानेनापि बेङ्गलूरुतः गच्छति चेत् दिनद्वयस्य प्रवासः भवति ।यतः समीपे एव लिङ्गनमक्किजलबन्धः, गेरुसोप्पे जलविद्युत्स्थावरः, होसनगर श्रीरामचन्द्रापुरम्, मुर्डेश्वरः, इडगुञ्जी, केळदी, मण्डगद्दे पक्षिधाम,इत्यादीनि दर्शनीयस्थानानि सन्ति । गेरुसोप्पे जलपातस्य विषये ज्ञातुं क्रि.श. १८५६तमे वर्षे द्वौ ब्रिटिश् अधिकरिणौ संशोधनं कृतवन्तौ । तेषां वृत्तान्तानुगुणं प्रपातस्य दैर्घ्यं ८२९पादपरिमितम् । किन्तु जलप्रप्रवाहस्य रंहनिर्मितः प्रपातः १२९पादमितः । शिवमोग्गा-उत्तरकन्नडमण्डलयोः मध्ये नद्याः वैशाल्यं २१३०पादपरिमितम् । क्रि.श. १८६९तमे वर्षे जनवरी मासे ब्रिटिश् अधिकारिणी श्रीमती लूयि ब्रौनिङ्ग् एतं प्रदेशं दृष्ट्वा "जलपातस्य शिवमोग्गासीमाप्रान्ते गहनं वनम् आसीत् येन पटगृहम् अपि निर्मातुम् अवसरः नासीत्” इति उक्तवती । शरावतीनद्याः जलबन्धं निर्मीय लिङ्गनमक्किजलाशयः इति नाम दत्तम् । अस्मिन् जलागारे सङ्गृहीतजलम् अवलम्ब्य जोगजलपाततः २४कि.मी.दूरे विद्यमानस्य गिरेभास्कर इति प्रदेशे क्रि.श.१९३०तमे वर्षे मैसूरुराज्यस्य (कर्णाटकम्) लोकोपयोगी विभागद्वारा जलविद्युदुत्पादनाघटकस्य निर्माणार्थं कार्यम् आरब्धम् । अस्य कृष्णराजेन्द्रजलविद्युत् योजना इति नाम स्थापितम् । कालक्रमेण महात्मागान्धीजलविद्युत् प्रकल्पः इति नामाङ्कितम् । क्रि.श. १९४९तमे वर्षे फेब्रवररी २१दिनाङ्के आरब्धा एषा योजना प्रतिवर्षं १२०मेगाव्याट् विद्युदुत्पादनस्य क्षमतां रक्षति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गेरुसोप्पजलपातः&oldid=419143" इत्यस्माद् प्रतिप्राप्तम्