मञ्जुगुणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मञ्जुगुणि (Manjuguni) कर्णाटकराज्यस्य उत्तरकन्नडमण्डले स्थितं किञ्चन क्षेत्रं वर्तते । तिरुपतिवेङ्कटरमणः एकदा मृगयार्थं गच्छन् अत्र आगतवान् । अत्रत्येन प्रकृतिसौन्दर्येण आकृष्टः सः अत्रैव स्थितवान् इति श्रूयते ।

अनन्तरकाले अत्र श्री वेङ्कटरमणस्य देवालयः निर्मितः अस्ति । श्रीवेङ्कटरमणमूर्तिः कृष्णषिलयानिर्मिता विद्यते । अयं धनुर्बाणहस्तः पादुकायुक्तः शङ्खचक्रगदाधरः च अस्ति । अत्र सुन्दराः कासाराः रथमार्गाः पूगनारिकेलादिव्यवृक्षक्षॆत्राणि च दर्शनीयानि सन्ति । अत्र समीपे गुहाः सन्ति । चैत्रपूर्णिमायां रथोत्सवः भवति ।

मार्गः[सम्पादयतु]

शिरसी-कुमटाराजमार्गे २० कि.मी, ततः ५ कि.मी ।
शिरसीतः लोकयानानि सन्ति ।
"https://sa.wikipedia.org/w/index.php?title=मञ्जुगुणि&oldid=388922" इत्यस्माद् प्रतिप्राप्तम्