ताळीकोटे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कर्णाटकराज्यस्य उत्तरभागे विद्यमाने बिजापुरमण्डले स्थितं प्रसिद्धं स्थानम् अस्ति । बहुभ्यः शतकेभ्यः प्रसिद्धं वाणिज्यकेन्द्रम् एतत् । घृतस्य धान्यानां वाणिज्यम् अतिप्रसिद्धम् आसीत् । अत्रत्यजनानां प्रमुखौ उद्योगौ कृषिः वाणिज्यं च । विजयनगरसाम्राज्यस्य पतने कारणीभूतं, १५६५ तमे वर्षे प्रवृत्तं ताळीकोटेयुद्धम् अत्रैव समीपे रक्कस-तङ्गडगी इत्यत्र प्रवृत्तम्। अनेकानि ऐतिहासिकानि स्थानानि अत्र सन्ति । प्राचीनदुर्गस्य अवशेषान् अत्र द्रष्टुं शक्नुमः । इतः ५-६ किलोमीटर् दूरे हगरटगि इत्यत्र शताधिकानि पाण्डवानां मन्दिराणि सन्ति । कुन्ती, भीमः, विदुरः, एवं महाभारतस्य पात्राणि देवत्वम् आप्तवन्तः सन्ति । इदानीम् एतत् बिजापुरमण्डलस्य उपमण्डलकेन्द्रम् अस्ति। राज्यराजधानीतः ५२० कि मी दूरे अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=ताळीकोटे&oldid=370847" इत्यस्माद् प्रतिप्राप्तम्