कुशानसाम्राज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुशानराजः बोधिसत्वमैत्रेयः (शिल्पः)

कुशानसाम्राज्यं क्रि श १ शतकतः ३ शतकपर्यन्तं शासनम् अकरोत् भारते । क्रि श १०५-२५० पर्यन्तम् उत्तुङ्गस्थितौ आसीत् । तदा तत् साम्राज्यं ताजिकिस्तानतः क्यास्टियन्-समुद्रपर्यन्तम्, अफघानिस्तानतः गङ्गानद्याः उपत्यकापर्यन्तं प्रसृतम् आसीत् । अस्य साम्राज्यस्य स्थापनं चीनदेशस्य पूर्वतुर्किस्तानस्य निवासिनः टोचारियन्-जनाः अकुर्वन् । तेषां साम्राज्यस्य संस्कृतिः उत्तरभारतस्य संस्कृतितः प्रभाविता आसीत् । एतत् साम्राज्यं पूर्व-पश्चिमजगतः वाणिज्यकेन्द्रम् आसीत् । रोम्, ससानीय, पर्षिया इत्यादिभिः देशैः सह अस्य साम्राज्यस्य निरन्तरं सम्बन्धः आसीत् । चीनादेशेन सह निरन्तरव्यवहारस्य काराणतः तत्र कालान्तरे बौद्धधर्मः प्रसृतः ।

कुशानकालस्य नाण्यम्
"https://sa.wikipedia.org/w/index.php?title=कुशानसाम्राज्यम्&oldid=398139" इत्यस्माद् प्रतिप्राप्तम्