अवजानन्ति मां मूढा...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अवजानन्ति मां मूढाः मानुषीं तनुम् आश्रितम् परं भावम् अजानन्तः मम भूतमहेश्वरम् ॥ ११ ॥

अन्वयः[सम्पादयतु]

मम परं भावम् अजानन्तः मूढाः मानुषीं तनुम् आश्रितं मां भूतमहेश्वरम् अवजानन्ति ।

शब्दार्थः[सम्पादयतु]

मम = मम
परं भावम् = श्रेष्ठं तत्त्वम्
अजानन्तः = अनवगच्छन्तः
मूढाः = अविवेकिनः
मानुषीम् = मानवीम्
तनुम् = मूर्तिम्
आश्रितम् = प्राप्तम्
भूतमहेश्वरम् = भूतानाम् अधिपम्
माम् अवजानन्ति = मां परिभवन्ति ।

अर्थः[सम्पादयतु]

सर्वेषां भूतानाम् ईश्वरोऽहं भक्तेच्छावशात् मनुष्यरूपेण भूमौ अवतीर्णः अस्मि । मम इमं मनुष्याकारं दृष्ट्वा अविवेकिनः अयं साधारणः इति भावयन्तः तिरस्कुर्वन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अवजानन्ति_मां_मूढा...&oldid=418431" इत्यस्माद् प्रतिप्राप्तम्