अनन्याश्चिन्तयन्तो मां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वाविंशतितमः(२२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अनन्याः चिन्तयन्तः मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहामि अहम् ॥ २२ ॥

अन्वयः[सम्पादयतु]

अनन्याः ये जनाः मां चिन्तयन्तः पर्युपासते नित्याभियुक्तानां तेषां योगक्षेमम् अहम् वहामि ।

शब्दार्थः[सम्पादयतु]

अनन्याः = मामेव आश्रिताः
ये जनाः = ये मानवाः
चिन्तयन्तः = ध्यायन्तः
मां पर्युपासते = मां सेवन्ते
नित्याभियुक्तानाम् = सततयोगिनाम्
तेषाम् = एतेषाम्
योगक्षेमम् = अप्राप्तस्य लाभं प्राप्तस्य च परिपालनम्
वहामि = धारयामि ।

अर्थः[सम्पादयतु]

ये जनाः इन्द्रादीन् विहाय मामेव शरणम् आपन्नाः सेवन्ते तेषाम् अप्राप्तस्य प्राप्तिं स्थितस्य च परिरक्षणम् अहं करोमि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]