होन्नाळी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कर्णाटकस्य दावणगेरेमण्डले एतत् पुराणप्रसिद्धं भास्करक्षेत्रम् अस्ति । तुङ्गभद्रानदीतीरे इदं क्षेत्रम् अस्ति । अत्र प्राचीनः श्रीराघवेन्द्रदेवालयः अस्ति । भक्तः श्री रामाचार्यः एतत् स्थापितवान् । अत्र बृन्दावनप्रतिष्ठासमये श्रीराघवेन्द्रस्वामिनः दर्शनमभवदिति जनानां विश्वासः अस्ति । यादवार्याणां शिष्यः श्री श्रीनिवासतीर्थः श्री राघवेन्द्रस्वामिनः समकालिकः। श्रीराघवेन्द्रस्वामिनः ’तीर्थ’ इति विशेषनाम दत्तवन्तः । बृन्दावनं तुङ्गभद्रासेतोः अधः अस्ति । तत्र आराधनामहोत्सवः प्रतिवर्षं प्रचलति । दक्षिणे पार्श्वे वड्डनकेरि भागे बृहत् प्राणदेवमूर्तिः देवालये अस्ति। एतां मूर्तिं श्री व्यासरायस्वामी प्रतिष्ठापितवान् इति इतिहासेन ज्ञायते । श्री प्राणदेवः हनुमान् समुद्रलङ्घनसमये एतत् रुपं धृतवानिति जनानामाभिप्रायः ।

  • मार्गः -शिवमोग्गातः ३८ कि.मी बेङ्गळूरुतः ३२३ कि.मी।
  • होन्नाळी std सङ्ख्या-०८१८८
"https://sa.wikipedia.org/w/index.php?title=होन्नाळी&oldid=389208" इत्यस्माद् प्रतिप्राप्तम्