अहं सर्वस्य प्रभवो...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुधाः भावसमन्विताः ॥ ८ ॥

अन्वयः[सम्पादयतु]

अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते इति मत्वा बुधाः भावसमन्विताः मां भजन्ते ।

शब्दार्थः[सम्पादयतु]

अहम् = परब्रह्म
सर्वस्य = सकलस्य
प्रभवः = उत्पत्तिस्थानम्
मत्तः = परब्रह्मणः एव
सर्वम् = जगत्
प्रवर्तते = सम्भवति
इति = एवम्
मत्वा = विज्ञाय
बुधाः = पण्डिताः
भावसमन्विताः = प्रीतिसहिताः
मां भजन्ते = मा सेवन्ते ।

अर्थः[सम्पादयतु]

अहं (परब्रह्म) सकलस्य मूलकारणम्, मत्तः (परब्रह्मणः) एव निखिलं जगत् सम्भवति इति मत्वा भावसहिताः पण्डिताः मामुपासते ।

रामानुजभाष्यम्[सम्पादयतु]

विभूतिज्ञानविपाकरूपां भक्तिवृद्धिं दर्शयति— अहं सर्वस्य विचित्रचिदचित्प्रपञ्चस्य प्रभव उत्पत्तिकारणम् । सर्वं मत्त एव प्रवर्तते । इतीदं मम स्वाभाविकं निरङ्कुशैश्वर्यं सौशील्यसौन्दर्यवात्सल्यादिकल्याणगुणगणयोगं च मत्वा बुधा ज्ञानिनो भावसमन्वितां मां सर्वकल्याणगुणान्वितं भजन्ते । भावो मनोवृत्तिविशेषम्, मयि स्पृहयालवो मां भजन्त इत्यर्थम् ॥१०.८॥

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अहं_सर्वस्य_प्रभवो...&oldid=418449" इत्यस्माद् प्रतिप्राप्तम्