लक्ष्मेश्वरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लक्ष्मेश्वरम्- (शिरहट्टी) कर्णाटकप्रान्तस्य गदगमण्डले विद्यमानः कश्चन ग्रामः ।इतिहासे अस्य क्षेत्रस्य पुलिगेरे हुलिगेरे हुलिगेरे हुटिकनगरम् इति नामानि आसन् । कण्वभूमिः अत्र आसीत् । चालुक्यराजः लक्ष्मीनरसः अत्र शासनं कृतवान् अतः लक्ष्मेश्वरम् इति नाम अभवत् । अत्र सुन्दरदेवालयाः सन्ति प्रमुखः देवालयः कलात्मकः। ११ शतमानकाले निर्मितः सोमेश्वरदेवालयः । अत्र शिवः पार्वती च नन्दीश्वरस्य उपरि उपविष्टवन्तौ स्तः । देवः स्वयम्भूः पुलिगेरे सोमेश्वरः सौराष्ट्रादानीतः इति कारणात् सौराष्ट्रस्य सोमेश्वरः इति कथितः अस्ति । जनाः देवालयं लक्ष्मीलिङ्गगुडि इति कथयन्ति ।

मार्गः[सम्पादयतु]

धारवाडतः ६० कि.मी । गदगतः ४० कि.मी । गुडगेरिरेलनिस्थानतः १२ कि.मी ।हुब्बळ्ळी-बेङ्गळूरुमार्गः

"https://sa.wikipedia.org/w/index.php?title=लक्ष्मेश्वरम्&oldid=373020" इत्यस्माद् प्रतिप्राप्तम्