प्रत्यक्षपद्धतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

व्याकरणानुवादपद्धतिः सम्भाषणं कर्तुं पर्याप्ता न आसीत् तया पद्धत्या ये भाषाम् अभ्यसितवन्तः ते सम्भाषणं कर्तुम् अशक्ताः भवन्ति स्म । यतः तेषां लक्ष्यं तत् न आसीत् । इस्रेल्(ISRAIL) देशे प्रत्यक्षपद्धतेः विकासः अभवत् । तत्रत्याः नागरिकाः हिब्रू भाषां वदेयुः इति अपेक्षा आसीत् । लेखनं कुर्युः इति अपेक्षा नासीत् । अतः तैः प्रत्यक्षपद्धतेः विकासः कृतः ।

प्रत्यक्षपद्धतेः लक्षणानि[सम्पादयतु]

  • श्रवणस्य भाषणस्य प्राधान्यम् ।
  • कक्ष्यां गत्वा तया एव भाषया शिक्षकः वदति । सर्वेऽपि व्यावहाराः शिक्ष्यमाणया भाषया भवन्ति ।
  • नित्योपयोनि वाक्यानि शब्दाः च पाठयन्ते ।
  • चित्रदर्शनेन वस्तुदर्शनेन, अभिनयेन च शब्दानाम् अर्थपरिचयः ।
  • परोक्षरुपेण व्याकरणस्य पाठनम् । उदाहरणद्वारा व्याकरणांशज्ञापनम् व्याकर्णनियमत्त्वेन न ।
  • मौखिकाभ्यासद्वारा नूतनाः अभ्यासाः पाठयन्ते ।
  • शिक्षकस्य उच्चारणस्य महत्त्वम् ।

दाष्टर्यम्-घाष्टर्यम् लिपिं स्मृत्वा -जानीमः ।

प्रत्यक्षपद्धतेः सूत्राणि[सम्पादयतु]

  • अनुवादं न करोतु । अपि तु प्रदर्शयतु ।

दर्शनं श्रवणं यदा भवति । तदा ग्रहणं भवति ।

  • न विवृणोतु । अपि तु अभिनयतु
  • भाषणं न करोतु प्रश्नान् पृच्छतु ।
  • दोषान् न अनुकरोतु, परिष्करोतु । अशुद्धरुपस्य श्रावणम् न ।
  • केवलं शब्दं मा वदतु पूर्णं वाक्यं वदतु । विशिष्टम् अभ्यासं विहाय ।
  • पाठ्यपुस्तकस्य उपयोगं न करोतु, पाठ्ययोजनाम् अनुसरतु ।
  • पाठ्यांशान् मा मिश्रीकरोतु, पाठयोजनाम् अनुसरतु ।
  • अधिकवेगेन मा पाठयतु, अत्यन्तं सावधानेन अपि न पाठनीयम् ।
  • असहनां मा प्रदर्शयतु । Take it easy .

विमर्शः[सम्पादयतु]

अस्याः पद्धतिविषये अपि महान् विरोधः अस्ति । गच्छता कालेन ज्ञातम् । प्रत्यक्षपद्धतिः परिपूर्णा न । अत्र अपि न्यूनताः सन्ति ।

  • प्रत्यक्षपद्धतेः सफलता शिक्षकम् अवलम्बते । पाठयपुस्तकं विहाय पाठनीयम् । यतः-
  • श्रवणस्य भाषणस्य केवलम् अवसरः । दिनद्वयानन्तरं ज्ञातोऽऽपि अवसरः विस्मृतः भवेत् ।

"https://sa.wikipedia.org/w/index.php?title=प्रत्यक्षपद्धतिः&oldid=341775" इत्यस्माद् प्रतिप्राप्तम्