यावत्सञ्जायते किञ्चित्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्‍गमम्‌ 
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्‍गमं क्षेत्रक्षेत्रज्ञसंयोगात् तत् विद्धि भरतर्षभ ॥ २६ ॥

अन्वयः[सम्पादयतु]

भरतर्षभ ! स्थावरजङ्‍गमं किञ्चित् सत्त्वं यावत् सञ्जायते तत् क्षेत्रक्षेत्रज्ञसंयोगात् विद्धि ।

शब्दार्थः[सम्पादयतु]

भरतर्षभ = भरतश्रे !
स्थावरजङ्‍गमम् = चरम् अचरं च
सत्त्वम् = वस्तु
क्षेत्रक्षेत्रज्ञसंयोगात् = जीवशरीरसम्बन्धात्
विद्धि = जानीहि ।

अर्थः[सम्पादयतु]

भरतश्रे ! स्थावरं जङ्‍गमं वा यत्किञ्चित् वस्तु अत्र यत् सम्भवति तत् शरीरपुरुषसम्बन्धात् सम्भवतीति जानीहि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]