इन्दिरागान्धीजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इन्दिरागान्धीजयन्ती
इन्दिरागान्धी
इन्दिरागान्धी

नवम्बरमासस्य १९ तमे दिने श्रीमत्याः इन्दिरागान्धिमहोदयायाः जन्मदिनं देशे सर्वत्र आचरन्ति । श्रीमती इन्दिरागान्धिः भारतदेशस्य प्रथमप्रधानमन्त्रिणः श्रीजवाहरलालमहोदयस्य एका एव पुत्री आसीत् ।

बाल्यम्[सम्पादयतु]

श्रीमती इन्दिराप्रियदर्शिनी १९१७ तमे वर्षे नवम्बरमासस्य १९ तमे दिने जन्म प्राप्तवती । अस्याः पिता श्रीजवाहरलालनेहरुः भारतदेशस्य स्वातन्त्र्यान्दोलने सक्रियः नायकः आसीत् । पितामहः श्री मोतीलालनेहरुः अलहाबादनगरे श्रेष्ठः न्यायवादी आसीत् । आनन्दभवनम् इति नेहरुकुटुम्बस्य राजगृहमिव भव्यम् आवासस्थानम् आसीत् । इन्दिराप्रियदर्शिनीमहोदयायाः माता श्रीमती कमलानेहरुः देशभक्ता सदाचारसम्पन्ना आसीत् । भव्ये गृहे इन्दिराप्रियदर्शिनी बाल्यं वैभवेन न यापितवती । अस्य कारणं मातुः अनारोग्यम् । अतः एव श्रीमती इन्दिराप्रियदर्शिन्याः विद्याभ्यासोऽपि क्रमपूर्वकं नाभवत् ।

जीवनम्[सम्पादयतु]

किञ्चित्कालं यावत् मातुः चिकित्साकारणतः स्वित्झर्लेण्डदेशेऽपि स्थिता । तत्रैव प्राथमिकाभ्यासं कृतवती । भारतदेशे स्वातन्त्र्यान्दोलनं प्रचलति स्म । ‘आनन्दभवनम्’ अखिलभारतकाङ्ग्रेससंस्थायाः कार्यालयः आसीत् । अतः बहवः नायकाः अत्र आगच्छन्ति स्म । अनेन कारणेन इन्दिराप्रियदर्शिनी गृहे एव स्थित्वा देशीयनायकानां विषये ज्ञातवती । पितामहस्य अत्यन्तं प्रियपौत्री इन्दिराप्रियदर्शिनी परिसरप्रभावादेव देशभक्ता सुशिक्षिता चाभवत् । पिता श्री जवाहरलालनेहरुः तदा तदा कारागृहवासम् अनुभवन्नपि पुत्र्याःशिक्षार्थं पत्रेणैव मार्गदर्शनं करोति स्म पत्रेषु एव भारतस्य इतिहासं वैभवं दर्शितवान् आसीत् । तानि पत्राणि ‘’’लेटर्स् टु इन्दिरा’’’ इति प्रसिद्धानि सन्ति । १९३६ तमे वर्षे माता श्रीमती कमलानेहरुः अनारोग्याt दिवङ्गता अभवत् । तदा सम्पूर्णस्य कुटुम्बस्य कर्तव्यानि इन्दिराप्रियदर्शिनी स्वयं निरूढवती । १९४२ तमे वर्षे इन्दिराप्रियदर्शिनी फारसीमतानुयायिनं देशभक्तं फिरोजगान्धिं परिणीतवती । तदनन्तरं इन्दिराप्रियदर्शिनी श्रीमती इन्दिरागान्धिः इति प्रसिद्धा अभवत् । १९४२ तमे वर्षे श्रीफिरोजगान्धिः श्रीमती इन्दिरागान्धिः च “भारतं त्यजत” आन्दोलने कारागृहवासम् अनुभूतवन्तौ । श्रीमती इन्दिरागान्धिमहोदयायाः प्रथमपुत्रः सञ्जयः द्वितीयः च राजीवः इति । भारतदेशे स्वातन्त्र्यालाभाय सततं प्रयत्नाः अभवन् । एवम् १९४७ तमे वर्षे अगस्ट १५ तमे दिने भारतदेशः स्वतन्त्रः इति घोषितः अभवत् । तदा पण्डितजवहरलालनेहरुः भारतदेशस्य प्रधानमन्त्री अभवत् । सप्तदशवर्षाणि यावत् श्रीमती इन्दिरागान्धिः पितरं सम्यक् पालितवती । १९६० तमे वर्षे श्री फिरोजगान्धिमहोदयः दिवङ्गतः अभवत् । एषः संसत्सदस्यरुपेणापि उत्तमं कार्यं कृतवानासीत् । १९६४ तमे वर्षे श्री जवाहरलालनेहरुः पार्श्वरोगेण दिवङ्गतः अभवत् । तदा श्री लालबहादुरशास्त्री भारतदेशस्य प्रधानमन्त्री अभवत् ।

राजकीयप्रवेशः[सम्पादयतु]

१९६६ तमे वर्षे श्री लालबहादुरशास्त्री रषियादेशे ताष्केण्टनगरे दिवङ्गतः अभवत् । तदा श्रीमती इन्दिरागान्धिमहाभागा भारतदेशस्य प्रथममहिलाप्रधानमन्त्रिणी अभवत् । १९६१ तमे वर्षे अखिलभारतकाङ्ग्रेसपक्षे केचन विभक्ताः अभवन् । श्रीमती इन्दिरागान्धिमहोदयायाः कार्येषु वित्तकोशानां राष्ट्रिकरणं, दारिद्रयनिर्मूलनाय ‘गरीबी हटाओ’ आन्दोलनं, विंशति-अंशीयकार्यक्रमाः च प्रमुखाः सन्ति । १९७१ तमे वर्षे सार्ववत्रिकनिर्वाचने श्रीमती इन्दिराकाङ्ग्रेसपक्षः देशे बहुमतं प्राप्य श्रीमती इन्दिरागान्धिः द्वितीयवारं प्रधानमन्त्रिणी अभवत् । देशे जनसङ्ख्यानियन्त्रणयोजना आरब्धा । १९७१ तमे वर्षे श्रीमती इन्दिरागान्धिः भारतरत्नप्रशस्त्या सत्कृता अभवत् ।

आन्तरिकी आपत्स्थितिः[सम्पादयतु]

१९८२ तमे वर्षे एषियन् क्रीडोत्सवः देहलीनगरे अभवत् । श्रीमति इन्दिरागान्धिः सप्तम-अलिप्तराष्टसम्मेलनस्य अध्यक्षा अभवत् । अस्मिन् समये पञ्जाब् राज्ये अमृतसरमन्दिरे भयोत्पादकानां अट्टहासः आसीत् । तं विनाशयितुम् आपरेशन् ब्लूस्टार् कार्याचरणेन अमृतसरे सैनिकानाम् आकमणम् अभवत् । भयोत्पादकानां प्रधानः भिन्द्रनवाले मृतः अभवत् । एतन्मध्ये अलहाबादोच्यन्यायालयः श्रीमती इन्दिरागान्धिमहाभागायाः निर्वाचनम् अनूर्जितम् अकरोत् । तदा देशे आपत्कालिकस्थितिः घोषिताऽभवत् । १९७७ तमे वर्षे श्री जयप्रकाशनारायणस्य नेतृत्वे जनतापक्षः देशे बहुमतं प्राप्य काङ्ग्रेस्सेतरप्रशासनं भारतदेशे प्रशासनम् अकरोत् । श्री मोरारजी देसायी प्रधानमन्त्री अभवत् । श्रीमती इन्दिरागान्धिमहोदयायाः गृहबन्धनं दण्डनं च अभवत् । पुनः ,कर्णाटकराज्यस्य चिक्कमगळूरु संसदीयक्षेत्रात् श्रीमती इन्दिरागान्धिः निर्वाचिता संसत्सदरया अभवत् । पञ्जाबप्रदेशे सैनिककार्याचरणेन जनाः दुः खिताः । पुनः १९८० तमे वर्षे सर्वत्रिकनिर्वाचने इन्दिरागान्धिमहोदयायाः बहुमतं प्राप्तमभवत् । पुनः तृतीयवारम् इन्दिरागान्धिः देशस्य प्रधानमन्त्री अभवत् । १९८४ तमे वर्षे अक्टोबर ३१ तमे दिने श्रीमती प्रधानमन्त्रिनिवासे एव अङ्गरक्षकैः मारिता अभवत् । केदारसिङ्गः सत्वन्तसिड्गः बियान्तसिङ्गः इत्येते सैनिकाः श्रीमती इन्दिरागान्धिमहोदयां मारितवन्तः । श्रीमती इन्दिरागान्धि महोदयायाः देशभक्तिकार्याणि सड्घटनाशक्तिं च जयन्त्याः आचरणसमये जनाः सादरं वर्णयन्ति ।

"https://sa.wikipedia.org/w/index.php?title=इन्दिरागान्धीजयन्ती&oldid=391714" इत्यस्माद् प्रतिप्राप्तम्