तमस्त्वज्ञानजं विद्धि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

तमः तु अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् प्रमादालस्यनिद्राभिः तत् निबध्नाति भारत ॥ ८ ॥

अन्वयः[सम्पादयतु]

भारत ! सर्वदेहिनां मोहनं तमः तु अज्ञानजं विद्धि । तत् प्रमादालस्यनिद्राभिः निबध्नाति ।

शब्दार्थः[सम्पादयतु]

सर्वदेहिनाम् = सकलशरीरभृताम्
मोहनम् = अविवेककरम्
तमः = तमोगुणः
अज्ञानजम् = अविवेकजनितम्
प्रमादात् = अनवधानात् ।

अर्थः[सम्पादयतु]

अर्जुन ! गुणेषु यत् तृतीयं तमः अज्ञानात् सम्भवति । इदं च तमः सर्वेषां प्राणिनां भ्रान्तिं जनयति । अनेन गुणेन सर्वेषाम् अनवधानं जाड्यं निद्रा च सम्भवति । एवमिदं तमः पुरुषं संसारे बध्नाति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]