लोभः प्रवृत्तिरारम्भः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा रजसि एतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥

अन्वयः[सम्पादयतु]

भरतर्षभ ! लोभः प्रवृत्तिः कर्मणाम् आरम्भः अशमः स्पृहा एतानि रजसि विवृद्धे जायन्ते ।

शब्दार्थः[सम्पादयतु]

लोभः = परद्रव्यप्राप्तीच्छा
प्रवृत्तिः = प्रवर्तनम्
कर्मणाम् = कार्याणाम्
आरम्भः = प्रारम्भः
अशमः = अशान्तिः
स्पृहा = तृष्णा
रजसि = रजोगुणे
विवृद्धे = बृंहिते ।

अर्थः[सम्पादयतु]

अर्जुन ! पुरुषस्य यदा लोलुपत्वम्, निरन्तरप्रयत्नः, काम्येषुं निषिद्धेषु च कर्मसु प्रवृत्तिः, अविश्रान्तिः, दृष्टमात्रेषु अपि वस्तुषु परमा आसक्तिः च भवति तदा तस्मिन् रजोगुणः वृद्धिं गतः इति ज्ञातव्यम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]