कर्शयन्तः शरीरस्थं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥ ६ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य षष्ठः(६) श्लोकः ।

पदच्छेदः[सम्पादयतु]

कर्शयन्तः शरीरस्थं भूतग्रामम् अचेतसः मां च एव अन्तः शरीरस्थं तान् विद्धि आसुरनिश्चयान् ॥

अन्वयः[सम्पादयतु]

दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः अचेतसः शरीरस्थं भूतग्रामम् अन्तःशरीरस्थं मां च एव कर्शयन्तः ये जनाः अशास्त्रविहितं घोरं तपः तप्यन्ते तान् आसुरनिश्चयान् विद्धि ।

शब्दार्थः[सम्पादयतु]

दम्भाहङ्कारसंयुक्ताः = दम्भाभिमानसहिताः
कामरागबलान्विताः = इच्छानुरागाग्रहयुक्ताः
अशास्त्रविहितम् = अशास्त्रप्रतिपादितम्
तप्यन्ते = कुर्वन्ति
अचेतसः = अविवेकिनः
शरीरस्थम् = देहस्थितम्
भूतग्रामम् = इन्द्रियसमुदायम्
अन्तःशरीरस्थम् = साक्षिभूतम्
कर्शयन्तः = कृशीकुर्वन्तः
आसुरनिश्चयान् = क्रूरनिर्णयान् ।

अर्थः[सम्पादयतु]

येषु पुनः धार्मिकतया आत्मनः ख्यापनम्, अहङ्कारः, विषयाभिलाषः, विषयाभिनिवेशः, आग्रहः इत्यादयः गुणाः सन्ति ते अविवेकिनः स्वशरीरे वर्तमानं पृथिव्यादिभूतसमूहं मां च कृशीकुर्वन्तः अशास्त्रीयं घोरं तपः कुर्वन्ति । तादृशाः उग्रकर्माणः इति ज्ञातव्यम् ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कर्शयन्तः_शरीरस्थं...&oldid=435078" इत्यस्माद् प्रतिप्राप्तम्