कुळित्थपिष्टम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुळित्थपिष्टम्

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
कुलम् Fabaceae
वंशः Macrotyloma
जातिः M. uniflorum
द्विपदनाम
Macrotyloma uniflorum
(Lam.) Verdc.
उपविभागीयस्तरः
  • M. uniflorum var. benadirianum (Chiov.) Verdc.
  • etc.

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । भारते वर्धमानः कश्चन धान्यविशेषः कुळित्थः । आङ्ग्लभाषायां Horse Gram इति उच्यते । अयं कुळित्थः भारते प्रचीनकालात् आरभ्य अद्यपर्यन्तम् अपि औषधत्वेन अपि उपयुज्यते । आयुर्वेदशास्त्रे अपि अस्य कुळित्थस्य उल्लेखः सर्वत्र दृश्यते एव ।

ताम्रवर्णः, कलावृत्तः, अनिलापहः, कर्पणा, पीतमुद्गः, अलिस्कन्दः, सुराष्ट्रकः इत्यादीनि नामानि सन्ति कुळित्थस्य । कुळित्थेन श्राणां, सारं, क्वथितं, पौलिं, व्यञ्जनं, पर्पटम्, अवदंशं च निर्मान्ति । यद्यपि कुळित्थे विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् ।

दृश्यताम्[सम्पादयतु]

अधिकविवरणार्थं कुळित्थः इति पृष्ठं द्रष्टव्यम् ।

"https://sa.wikipedia.org/w/index.php?title=कुळित्थपिष्टम्&oldid=401439" इत्यस्माद् प्रतिप्राप्तम्