न हि देहभृता शक्यं...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
- यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकादशः(११) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न हि देहभृता शक्यं त्यक्तुं कर्माणि अशेषतः यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ॥
अन्वयः
[सम्पादयतु]देहभृता अशेषतः कर्माणि त्यक्तुं नहि शक्यम् । यः तु कर्मफलत्यागी सः त्यागी इति अभिधीयते ।
शब्दार्थः
[सम्पादयतु]- देहभृता = शरीरधारिणा
- अशेषतः = सर्वात्मना
- कर्मफलत्यागी = कर्मप्रयोजनपरित्यागी ।
अर्थः
[सम्पादयतु]न हि केनापि पुरुषेण सर्वाणि कर्माणि त्यक्तुं शक्यन्ते । यदि त्यज्यन्ते तर्हि जीवनमेव दुष्करं भवति। तस्मात् कर्मणां फलं यः त्यजति स एव त्यागी, नान्यः इति निर्णयः युक्तः ।