अयुक्तः प्राकृतः स्तब्धः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ २८ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ॥ २८ ॥

अन्वयः[सम्पादयतु]

अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः विषादी दीर्घसूत्री च कर्ता तामसः उच्यते ।

शब्दार्थः[सम्पादयतु]

अयुक्तः = अवधानाभावात् अयोग्यः
प्राकृतः = असंस्कृतबुद्धिः
स्तब्धः = अविनीतः
शठः = वञ्चनापरः
नैष्कृतिकः = परावमानी
अलसः = मन्दः
विषादी = शोकवान्
दीर्घसूत्री = मन्दकारी।

अर्थः[सम्पादयतु]

यः अवधानाभावात् कर्मणि अयोग्यः, असंस्कृतबुद्धिः, उद्धतः, वञ्चनापरः, अन्येषां तिरस्कारकः, आलस्यशीलः, शोचनस्वभावः मन्दकारी च वर्तते सः तामसः कर्ता इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]