स्वे स्वे कर्मण्यभिरतः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ ४५ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चचत्वारिंशत्तमः(४५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

स्वे स्वे कर्मणि अभिरतः संसिद्धिं लभते नरः स्वकर्मनिरतः सिद्धिं यथा विन्दति तत् शृणु ॥

अन्वयः[सम्पादयतु]

नरः स्वे स्वे कर्मणि अभिरतः संसिद्धिं लभते । स्वकर्मनिरतः सिद्धिं यथा विन्दति तत् शृणु ।

शब्दार्थः[सम्पादयतु]

स्वे स्वे = स्वस्मिन् स्वस्मिन्
कर्मणि = कर्तव्ये
अभिरतः = आसक्तः
संसिद्धिम् = अभ्युदयम्
लभते = प्राप्नोति
स्वकर्मनिरतः = स्वकर्मानुष्ठाता
विन्दति = लभते ।

अर्थः[सम्पादयतु]

मानवः स्वस्मिन् स्वस्मिन् कर्तव्ये आसक्तः अभ्युदयं प्राप्नोति । स्वकर्म आचरन् फलं यथा लभते तं प्रकारं शृणु ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]