इति ते ज्ञानमाख्यातं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य त्रिषष्टितमः(६३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

इति ते ज्ञानम् आख्यातं गुह्यात् गुह्यतरं मया विमृश्य एतत् अशेषेण यथा इछसि तथा कुरु ॥

अन्वयः[सम्पादयतु]

मया गुह्यात् गुह्यतरम् एतत् ज्ञानम् इति ते आख्यातम् । एतत् अशेषेण विमृश्य यथा इच्छसि तथा कुरु।

शब्दार्थः[सम्पादयतु]

गुह्यात् = गोप्यात्
गुह्यतरम् = अतिशयेन गोप्यम्
ज्ञानम् = तत्त्वम्
आख्यातम् = कथितम्
अशेषेण = सकलम्
विमृश्य = आलोच्य ।

अर्थः[सम्पादयतु]

अर्जुन ! मया एतावन्तं कालम् अत्यन्तं रहस्यं तत्त्वं विशदीकृतम् । एतत् सर्वं सम्यक् ज्ञात्वा यत् कर्तुम् इच्छसि तत् कुरु ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]