काफीबीजम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भर्जितानि काफीबीजानि
काफिफलस्य अन्तः दृश्यमानं काफीबीजम्
पक्वानि काफीफलानि
विक्रयणार्थं सज्जीकृतं काफीबीजम्
काफीसस्यम्
सिद्धं काफीपेयम्

एतत् काफीबीजं भारते अपि वर्धमानस्य काफीसस्यस्य वैशिष्ट्यम् । एतत् काफीबीजम् अपि सस्यजन्यः आहारपदार्थः । एतत् काफीबीजम् आङ्ग्लभाषायां Coffee Bean इति उच्यते । अनेन काफीबीजेन एव काफीचूर्णं निर्मीयते । तेन काफीचूर्णेन काफीपेयं निर्मीयते । तत् पेयं सर्वदा उष्णं कदाचित् शीतलं चापि पीयते । अनेन काफीचूर्णेन निर्मीयमाणं काफीपेयं जगति एव अत्यन्तं जनप्रियं पेयम् अस्ति । अनेन काफीचूर्णेन २००३ तमे वर्षे निर्यातवस्तुषू विश्वे एव षष्ठं स्थानं प्राप्तम् अस्ति । आरम्भस्य पञ्चस्थानानि क्रमशः गोधूमेन, रागीधान्येन, सोयाधान्येन (निष्पावप्रभेदः), तालतैलेन, शर्करया च प्राप्तम् अस्ति ।

एतत् काफीसस्यं द्विविधं भवति । अराबिकं तथा रोबस्टं चेति । अराबिकवंशस्य काफीसस्यस्य वर्धनं प्रथमम् इतियोपिया मध्ये कृतम् । तथैव रोबस्टवंशस्य वर्धनम् अद्यतन-उगाण्डदेशे कृतम् । रोबस्टवंशस्य काफीबीजानि अत्यधिकप्रमाणेन "केफीन्"-अंशयुक्तानि भवन्ति । एतेषां रोबस्टवंशस्य काफीबीजानां भर्जनावसरे कश्चन विभिन्नः गन्धः अपि उत्पद्यते । अराबिकवंशस्य काफीबीजानि एव प्रसिद्धानि जनप्रियाणि च ।

काफीसस्यस्य बीजानि संस्कृत्य एव काफीचूर्णं निर्मातव्यं भवति । प्रथमं काफीफलानि उत्पाटनीयानि, अनन्तरं तेभ्यः फलेभ्यः बीजानि पृथक् करणीयानि । ततः तानि बीजानि शुष्कीकरणीयानि । तदनन्तरं तानि बीजानि भर्जयित्वा चूर्णं सज्जीक्रियते । काफीबीजानां भर्जनस्य आधारेण काफीपेयस्य रुचिः निर्धारिता भवति । भर्जनेन बीजे तैलस्य उत्पत्तिः भवति । तथैव कतिपयः आम्लाः अपि उत्पद्यन्ते । तस्मात् एव कारणात् काफीपेयं विशिष्टां रुचिं गन्धं च प्राप्नोति । फिल्टर्-काफीपेयनिमित्तं अतिसूक्ष्मचूर्णं न क्रियते । "क्षणसिद्ध"-काफीनिमित्तं अतिसूक्ष्मकूर्णं सज्जीक्रियते ।

बह्वीषु संस्कृतिषु अनेन काफीपेयेन प्रमुखं स्थानं प्राप्तम् अस्ति । दक्षिणभारते तु गृहम् आगतेभ्यः अतिथिभ्यः काफीदानम् अतिथिसंस्कारस्य अङ्गभूतम् । कुत्रचित् काफीपेयं निषिद्धम् अपि आसीत् । १६ शतके मेक्का सदृशेषु देशेषु एतत् काफीपेयम् उत्तेजनकारकम् इति निषिद्धम् आसीत् । १७ शतके इङ्ग्लेण्ड्देशे काफीपेयं राजकीयविद्रोहिभिः केवलम् उपयुज्यते इति निषिद्धम् आसीत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=काफीबीजम्&oldid=345352" इत्यस्माद् प्रतिप्राप्तम्