सर्पगन्धः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्पगन्धः
सर्पगन्धवृक्षः

परिचयः[सम्पादयतु]

सर्पगन्धा काचित् औषधिः। एतत् गुल्मसस्यम् अस्ति । निबिडहरिद्वर्णेन चकासन्ते अस्य पत्राणि । पुष्पाणि रक्तश्वेतवर्णमिश्रितानि भवन्ति । अयं गुल्मः विश्वे सर्वत्र काननेशु प्ररोहति । अरण्येषु महावृक्षाणां छायासु सर्पगन्धा रोहति । भारते हिमालयश्रेणिषु अधिकं दृश्यते ।

सस्यशास्त्रीयं वर्गीकरणम्[सम्पादयतु]

सर्पगन्धा एपोसाइनेसी (Apocynaceae) कुटुम्बे योजिता अस्ति । अस्य सस्यशास्त्रीयं नाम रौवोल्पिया सर्पेण्टिना (Rauwolfia Serpentina) इति । आङ्ग्लभाषया snake root इति वदन्ति । बहुवर्षीयः गुल्मः सपुष्पकः महत्वपूर्णम् औषधीयं सस्यम् । अस्य प्रधानमूलं २०से.मी. पर्यन्तं लम्बं वर्धते । मूले विशाखाः न भवन्ति । सर्पगन्धायाः पत्राणि सरलानि लघूनि च भवन्ति ।

प्रयोजनानि[सम्पादयतु]

सर्पगन्धासस्यस्य मूले रिसर्पिन् (reserpine) इति सस्यक्षारः अस्ति । आयुर्वेदचिकित्साक्रमे अस्य उपयोगः अधिकः । विशेषतः सर्पदशनस्य औषधरुपेण उपयुज्यते ।

"https://sa.wikipedia.org/w/index.php?title=सर्पगन्धः&oldid=344285" इत्यस्माद् प्रतिप्राप्तम्