संस्कृतवर्णमाला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


संस्कृतवर्णमाला
स्वराः
योगवाहौ
अं अः
व्यञ्जनानि
क् ख् ग् घ् ङ्
च् छ् ज् झ् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व्
श् ष् स् ह् ज्ञ् क्ष्

परिचयः[सम्पादयतु]

मनसः भावानां प्रकाशाय भाषा आवश्यकी भवति । वाक्यानां प्रयोगद्वारा भावप्रकाशं कुर्मः । वाक्यं पदैः युक्तं भवति । पदम् इत्येतत् वर्णैः युक्तं भवति । वर्नः अक्षरम् इत्यपि कथ्यते ।
संस्कृतभाषायाः सुप्रसिद्धः वैयाकरणः नाम पाणिनिः । संस्कृतवर्णमालायाः कारणीभूतः साक्षात् परमेश्वरः इति भारतीयपरम्परायाः अभिमतम् । परमेश्वरः १४ वारं डक्काम् अवादयत् । तदा १४ सूत्राणि श्रुतानि । तानि एव माहेश्वरसूत्राणि । संस्कृतवर्णमाला एतेषु चतुर्दशसु सूत्रेषु निहिता वर्तते ।
तानि सूत्राणि -

अइउण्
ऋलृक्
एओङ्
ऐऔच्
हयवरट्
लण्
ञमङ्णनम्
झभञ्
घढधष्
जबगडदश्
खफछठथचटतव् :कपय्
शषसर्
हल्

एतेषां सूत्राणाम् अन्तिमः वर्णः इत् इति संज्ञया निर्दिश्यते । वर्णानां गणनावसरे इत्-वर्णाः न परिगणनीयाः इति नियमः विद्यते ।

वर्णविभागः[सम्पादयतु]

वर्णाः द्विविधम् । स्वराः व्यञ्जनानि च इति ।

स्वराः[सम्पादयतु]

अ, इ, उ, ऋ, लृ, ए, ऐ, ओ, औ - इत्येते नव स्वराः । तेषु अ, इ, उ, ऋ - स्वराणां दीर्घरूपाणि सन्ति - आ, ई, ऊ, ॠ । अतः स्वराः त्रयोदश । अ, इ, उ, ऋ, लृ - एते पञ्च ह्रस्वस्वराः । अन्ये दीर्घस्वराः। एतेषु ए, ऐ, ओ, औ - एते संयुक्तस्वराः सन्ध्य्क्षराणि इति वा निर्दिश्यन्ते । स्वराणाम् उच्चारणाय स्वीक्रियमाणं कालमितिम् अनुसृत्य स्वराः ह्रस्वः, दीर्घः, प्लुतः इति त्रिधा विभक्ताः सन्ति ।

एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घम् उच्यते ।
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकम् ॥

येषां स्वराणाम् उच्चारणाय एकमात्रकालः भवति ते ह्रस्वाः स्वराः । उदा - अ, इ
येषां स्वराणाम् उच्चारणाय द्विमात्रकालः भवति ते दीर्घाः स्वराः । उदा - आ, ई
येषां स्वराणाम् उच्चारणाय द्विमात्रकालाद् अपेक्षया अधिकः कालः भवति ते प्लुताः स्वराः । उदा - आऽ, ईऽ
संयुक्ताक्षरं / सन्ध्यक्षरं नाम स्वरद्वयेन अक्षरद्वयेन सम्पन्नः स्वरः अक्षरम् वा । उदा - ए = अ + इ अथवा अ + ई /आ + इ / आ + ई ऐ = अ + ए / आ + ए, ओ=अ + उ / अ + ऊ / आ + उ / आ + ऊ, औ = अ + ओ / आ + औ

व्यञ्जनानि[सम्पादयतु]

उपरि दर्शितेषु माहेश्वरसूत्रेषु पञ्चमसूत्रतः अन्तिमसूत्रपर्यन्तं व्यञ्जनानि उक्तानि । व्यञ्जनानि ३३ । तानि वर्गीयव्यञ्जनानि अवर्गीयव्यञ्जनानि इति द्विधा । क्-तः म्-पर्यन्तं वर्गीयव्यञ्जनानि । अन्यानि अवर्गीव्यञ्जनानि ।

वर्गीयव्यञ्जनानि[सम्पादयतु]

क् ख् ग् घ् ङ् - एते कवर्गः - कण्ठ्यः - एतेषाम् उच्चारणस्थानं कण्ठः
च् छ् ज् झ् ञ् - एते चवर्गः - तालव्यः - एतेषाम् उच्चारणावसरे जिह्वा तालव्यस्थानं स्पृशति
ट् ठ् ड् ढ् ण् - एते टवर्गः - मूर्धन्यः - एतेषाम् उच्चारणावसरे मूर्धायाः स्थाने भारः भवति
त् थ् द् ध् न् - एते तवर्गः - दन्त्यः - एतेषाम् उच्चारणावसरे जिह्वा दन्तान् स्पृशति
प् फ् ब् भ् म् - एते पवर्गः - ओष्ठ्यः - एतेषाम् उच्चारणावसरे ओष्ठौ परस्परं स्पृशतः

वर्गीयव्यञ्जनेषु प्रतिवर्गस्य आदिमवर्णद्वयं खर्वर्णाः / कर्कशव्यञ्जनानि ।
अन्तिमवर्णद्वयं हश्वर्णाः / मृदु व्यञ्जनानि ।

अवर्गीयव्यञ्जनानि[सम्पादयतु]

य् र् ल् व् - अन्तस्थवर्णाः
श् ष् स् ह् - ऊष्मवर्णाः

अवर्गीयव्यञ्जनेषु श् ष् स् - एते कर्कशव्यञ्जनानि । अवशिष्टानि मृदुव्यञ्जनानि ।
प्रतिवर्गस्य प्रथमं तृतीयं पञ्चमं च व्यञ्जनं य् र् ल् व् च अल्पप्राणाः । अवशिष्टाः महाप्राणाः
प्रत्येकस्य वर्गस्य पञ्चमं व्यञ्जनं (ङ् ञ् ण् न् म्) अनुनासिकम् इति उच्यते । कण्ठादिस्थानं नासिका - इत्येतेषां साहाय्येन अनुनासिकाणाम् उच्चारणं भवति ।

अनुस्वारः, विसर्गः च[सम्पादयतु]

(अं) अम् इत्येषः अनुस्वारः । अस्य चिह्नमस्ति उपरिलिख्यमानः बिन्दुः । अः इत्येषः विसर्गः । अस्य चिह्नमस्ति वर्णस्य पुरतः लिख्यमानं बिन्दुद्वयम् । क् ख् - वर्णयोः पृष्ठतः विद्यमानः विसर्गः जिह्वामूलीयः इति कथ्यते । प् फ् - वर्णयोः पृष्ठतः विद्यमानः विसर्गः उपध्मानीयः इति कथ्यते ।

"https://sa.wikipedia.org/w/index.php?title=संस्कृतवर्णमाला&oldid=395953" इत्यस्माद् प्रतिप्राप्तम्