हरिद्राकषायम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


हरिद्रया निर्मितं कषायम् एव हरिद्राकषायम् । एषा हरिद्रा आङ्ग्लभाषायां turmeric इति वदन्ति ।

अस्य हरिद्राकषायस्य प्रयोजनानि[सम्पादयतु]

१ एतत् हरिद्राकषायम् आरोग्यार्थं बहु उत्तमम् ।
२ हरिद्राकषायस्य पानेन पीनसः, कासः, कण्ठवेदना, शरीरवेदना, शिरोवेदना, कफः इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
३ वृष्टिकालस्य शैत्यकालस्य च आरम्भे एव सामान्यानां रोगाणां निवारणार्थम् अपि एतत् हरिद्राकषायं पातुं शक्यते ।
४ हरिद्राकषायं प्रतिदिनम् अपि पानीयत्वेन अपि पातुं शक्यते ।

हरिद्राकषायस्य निर्माणम्[सम्पादयतु]

हरिद्रामूलं प्रक्षाल्य सम्यक् कुट्ट्नीयम् । दुग्धे तत् हरिद्रामूलं योजयित्वा सम्यक् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि गुडः, मरीचचूर्णं, जीरिकाचूर्णं च योजयितुं शक्यते । अनन्तरं तत् शोधनीयम् । ततः परं शोधितं कषायं तदा तदा किञ्चित् किञ्चित् पातुं शक्यते । यदि हरिद्रामूलं न प्राप्यते तर्हि हरिद्राचूर्णम् एव संस्थाप्य क्वथनीयम् ।

"https://sa.wikipedia.org/w/index.php?title=हरिद्राकषायम्&oldid=389174" इत्यस्माद् प्रतिप्राप्तम्