हरिद्रकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हरिद्राकवृक्षः

अयं कश्चित् भारतीयवृक्षविशेषः । एताः वृक्षप्रजातयः कर्णाटकस्य पश्चिमाद्रिभागे अधिकतया प्ररोहन्ति । अस्य सस्यशास्त्रीयं नाम अडिना कार्डिफोलिया रोक्सब् (Adina cordifolia Roxb) इति । रूबियेसी कुटुम्बसम्बद्धं सस्य एतत् । । विविधाभाषासु अस्य नामानि एवं भवन्ति ।

आङ्ग्लम् - अडिना कार्डिफोलिया रोक्सब् । Adina cordifolia Roxb
कन्नडम् - हेत्तेग, हेद्दि । ಹೆತ್ತೇಗು, ಹೆದ್ದಿ
हिन्दी - हल्दु, कडमि ।
तमिळु - मञ्जकबन्दु । மஞ்ஜகபன்து ।
तेलुगु - पसपुकदम्ब, क्षुद्रगणप । పసపు కదంబ, క్షుద్రగణప ॥
मराठि - गनेरि ।
मलयाळम् - मञ्जकबन्दु । മഞ്ജകബന്ധു ।

गुणलक्षणानि[सम्पादयतु]

हरिद्रकवृक्षस्य औन्नत्यं ३३मी.पर्यन्तमपि भवति । अस्य वल्कलस्य वर्णः भास्मवर्णः । अश्वत्थस्य पर्णानि इव भवन्ति । पत्राणि इव दृश्यमानानि अनुपर्णानि कलिकाः आच्छादयन्ति । पत्राणां व्यासः १०-२५ सें.मी. भवति । पुष्पाणि पीतवर्णीयानि भवन्ति । वर्तुलाकारस्य पुष्पगुच्छस्य व्यासः १.९-२.५सें.मी. भवति । हरिद्रकवृक्षेषु जून् जुलै मासयोः पुष्पाणि विकसन्ति । अस्य कुलाभिवृद्धिः बीजैः भवति ।

उपयोगाः[सम्पादयतु]

हरिद्रकवृक्षस्य दारु मार्जनेन चकास्ति । अतः अस्य दारूणि भावनस्य द्वाराणां गवाक्षाणां पीठोपकरणानां च निर्मार्थम् उपयुज्यन्ते । अस्य वृक्षस्य उत्कीर्णचित्रकलासु च उपयोगाय उत्तमं दारु भवति । चर्मणः उदमोषु चर्मपरिष्कारार्थम् अपि अस्य वलकलस्य उपयोगः भवति । रक्तसम्बद्धानां त्वक्सम्बन्धीनां च रोगनिवारणौषधेषु वृक्षवल्कलस्य उपयोगः भवति । वृणक्रिमीनां नाशार्थमपि वल्कलरसस्य उपयोगः भवति । शिरोवेदननिवारणार्थम् अस्य वृक्षस्य कलिकानाम् उपयोगः भवति ।

"https://sa.wikipedia.org/w/index.php?title=हरिद्रकः&oldid=358424" इत्यस्माद् प्रतिप्राप्तम्