सुक्षमफलरवृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सफला सुक्षमवृक्षशाखा

अस्य सस्यशास्त्रीयं नाम Cordia myxa इति अस्ति । भुसेलु इति अस्य नामान्तरम् । अस्य कुटुम्बः बोर्याजिनेसि इति । सामान्येषु अरण्येषु रोहति । फलार्थं वाटिकासु अपि प्रारोपयन्ति ।

अन्यभाषासु अस्य वृक्षस्य नामानि यथा...
आङ्ग्लम् - सेबस्टीन् प्लम् । The Babul, Indian gum Tree
कन्नडम् - चळ्ळङ्गायि, काडुचळ्ळे । ಚಳ್ಳಂಗಾಯಿ, ಕಾಡುಚಳ್ಳೆ |
हिन्दी - लसोरा ।
तमिळु - मरुविलि । மருவிலி ।
तेलुगु - चक्केरा । చక్కేరా ।
मराठि - छोक्रि ।
मलयाळम् - चरुविरि । ചരുവിരി ।

उपयोगाः[सम्पादयतु]

सुक्षमफलवृक्षः १८मी.पर्यन्तम् औन्नत्यं साधयति । काण्डः भस्मवर्णस्य अथवा पिङ्गलवर्णस्य भवति । परुषे वल्कले अल्पनिम्नाः छेदाः भवन्ति । पर्यायसंयुक्कानि अण्डाकाराणि पत्राणि भवन्ति । सुगन्धितानां बहुलिङ्गिपुष्पाणां व्यासः ५.१से.मी. वर्णः श्वेतः । कुण्डसदृशंपुष्पपात्रं प्रणाली इव योजितानि पुष्पदलानि सन्ति । मार्चमासतः एप्रिल्मासपर्यन्तम् एते वृक्षाः कुसुमिताः भवन्ति ।अस्य फलं २-२.५से.मी.दीर्गं भवति । पक्वं फलं कृष्णं स्वादः मधुरः । प्रतेकं पलम् एकम् एव बीजम् अस्ति । बीजैः एव स्य वृक्षस्य वंशप्रसारः । पुप्फुससम्बद्धरोगाणां शुष्ककासस्य ज्वरस्य औषधनिर्माणे सुक्षमफलवृक्षस्य फलानाम् उपयोगः अस्ति ।अस्य दारु नवां निर्माणे उपयोजयन्ति । अन्तर्वल्कलेन रज्जुनिर्माणं भवति । शलाटवः अवलेहनिर्मानोपयोगिनः भवन्ति । फलसारः संश्लेषणनिर्यासरूपेण उपयोगः शक्यते । पशवः पत्राणि प्रीत्या खादन्ति ।

एतत् बहुवारकफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् बहुवारकफलम् अपि सस्यजन्यः आहारपदार्थः । इदं बहुवारकफलम् आङ्ग्लभाषायां ॥॥॥ इति उच्यते । एतत् बहुवारकफलम् अकृष्टपच्यम् अपि । बहुवारकफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते ।

"https://sa.wikipedia.org/w/index.php?title=सुक्षमफलरवृक्षः&oldid=389848" इत्यस्माद् प्रतिप्राप्तम्