उदारता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


विकटाक्षरबन्धत्वमौदार्यम् । यत्र पदानि नृत्यन्तीव विभान्ति, तत्तदर्थांश्च स्फोरयन्ति, तत्रौदार्यं प्रतिष्ठितं भवति । उत्कृष्टगुणवद्वाक्शालिता उदारता (Udarata) इति दण्डी, कतिपय संयुक्ताक्षरविततत्वमौदार्यमिति नरसभूपालीयकर्ता च प्रत्यपादयताम् । यथा –

जग्ध्वा भूयांसि मांसान्यहमहमिकया बध्दगार्ध्यान्सपीत्या-
मस्रस्योच्चैस्तरास्थ्युत्कषणभवकटात्काररौद्राग्रदंष्ट्रान् ।
संबिभ्राणाः क्षपाटान् दिवपगलितवसानिर्झरान्तर्नदीष्णान्
कुर्वन्त्यायोधनोर्व्योभयमवनिभृतामान्ध्रसैन्येन सृष्टाः ॥

"https://sa.wikipedia.org/w/index.php?title=उदारता&oldid=372596" इत्यस्माद् प्रतिप्राप्तम्