समाधिगुणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



अन्यधर्माणामन्यत्राऽऽरोपणं समाधिः उच्यते । दण्डिनोऽप्ययमेवाऽऽशयः । वामनस्त्वारोहाऽवरोहक्रमस्समाधिरिति व्याचख्यौ । आरोहो नाम गुर्वक्षराधिक्यं, अवरोहस्तु लघ्वक्षराधिक्यमिति तस्याऽऽश्यः । यथा –

पृच्छन्ती दुग्धासिन्धुं कुशलमनुसरन्त्यादराच्छंकराद्रिं
चाटूक्त्यामानयन्ती मुहुरमरनदीं चन्द्रमग्रे हसन्ती ।
वैधात्रीं यानहंसावलिमनुकृपया स्वागतं व्याहरन्ती
लोकेषु त्रिष्वमीषु प्रभवति महतीवीररुद्रस्य कीर्तिः ॥

अत्राऽचेतनायां कीर्तौ कुशलप्रश्नकरणादि - चेतनधर्मारोपात् समाधिर्विद्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=समाधिगुणः&oldid=419429" इत्यस्माद् प्रतिप्राप्तम्