मेधाव्रताचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कविपरिचयः[सम्पादयतु]

आर्यसमाजस्य अनुयायी मेधाव्रताचार्यः १८९३ तमे ईशीयाब्दे महाराष्ट्रे येवलाग्रमे जनीं लब्धवान् । जनकोऽस्य जगज्जीवनो जननी च सरस्वती । अयमनेकत्र गुरुकुलेषु विद्यादानं कृतवान् । अस्य जीवनस्य सन्ध्याकालः चितौड्दुर्गनगरे आर्यसमाजगुरुकुले व्यतीतः । कविस्तत्रैव विद्यादानं कुर्वन् १९३४ ई०वर्षे दिवं गतवान् ।

काव्यपरिचयः[सम्पादयतु]

मेधाव्रताचार्यः अधोनिर्दिष्टानि काव्यानि प्रणीतवान् -

महाकाव्यानि-१) दयानन्ददिग्विजयम् २) ब्रम्हर्षिविरजानन्दचरितं ३) नारायणस्वामिचरितं च ।
गीतिकाव्यानि – १) ब्रम्हचर्यशतकम्, २) गुरुकुलशतकम्, ३) दयानन्दलहरी, ४) सुखनन्दगिरिदर्शनं च ।
गद्यकाव्यम् (उपन्यासः ) – कुमुदिनीचन्द्रम्
नाटकम् – प्रकृतिसौन्दर्यम्

दयानन्ददिग्विजयम्[सम्पादयतु]

अस्मिन् महाकाव्ये २७ सर्गाः सन्ति । अत्र स्वामिदयानन्दस्य जीवनचरितं समाजपरिष्कार्याणि शिक्षाश्च वर्णिता । अत्र अङ्गीरसः शान्तः । स्वामी दयानन्दोऽत्र धीरप्रशान्तः नायकः ।

ब्रम्हर्षिविरजानन्दचरितम्[सम्पादयतु]

अत्र १० सर्गाः सन्ति । अत्र स्वमिदयानन्दस्य गुरोः विरजानन्दस्य जीवनचरितम् उपनिबद्धम् । अत्रापि शान्तः अङ्गीरसः ।

नारायणस्वामिचरितम्[सम्पादयतु]

अस्मिन् महाकाव्ये १२ अलङ्काराः (सर्गाः ) सन्ति । अस्यापरा संज्ञा महात्मगुणमञ्जूषेति वर्तते । अत्र कविना स्वगुरोः नारायणस्वामिनो जीवनवृत्तं वर्णितम् ।

काव्यकला[सम्पादयतु]

मेघाव्रताचार्यस्य कवित्वस्य प्रकाशकं मुख्यतः एतस्य दयानन्ददिग्विजय-महाकाव्यं वर्तते । अत्रैव अस्य काव्यकलायाः चरमप्रकर्षोऽनुभूयते । अन्ययोः महाकाव्ययोः चरितवर्णनस्यैव प्राधान्यम् ।
मेधाव्रताचार्या वैदर्भीरीतेः कविः । चारुताऽस्य काव्यस्य विशिष्टो गुणः । सर्वेष्वेव काव्येषु भावपक्ष-कलापक्षयोः सामञ्जस्यं वर्तते । सर्वत्र शान्तरसोऽङ्गित्वेन विराजते । कविना प्रस्तुतं प्रकृतिचित्रणम् अतीव विशदं वर्तते । तेनास्य सूक्ष्मनिरीक्षणशक्तिः प्रतीयते । वसन्तशोभावर्णनं यथा -

नभः प्रसन्नं सलिलं प्रसन्नं
निशाः प्रसन्ना द्विजराजस्याः ।
द्वयं वसन्ते रुरुचे वसन्ति
प्रसादलक्ष्मीः प्रतिवस्तुदिव्या ।।

मेधाव्रताचार्येण प्रस्तुतं वस्तुरूपचित्रणमपि श्लाघनीयम् । टंकारा-बम्बई-दिल्यादिनगरीणं शोभाया वर्णनं सूक्ष्मतया कृतम् । अस्य वर्णनशैली हठात् चित्तम् आकर्षति । टङ्करानगर्याः वर्णनं यथा -

कुशपुष्पवती हव्यद्रव्यौषधिसमिच्चया
रेजे यज्ञस्थलीवेयं गोविप्रगणमण्डिता ॥

दिल्लीवर्णनं यथा –

अर्थिसार्थहितकल्पसुवल्ली
चत्पुरोऽमरपुरी लघुपल्ली ।
यां श्रिता सुकृतिनी वनभिल्ली
सा बभावनुपमा भुविं दिल्ली ॥

भावानां सरसता, वर्णनप्रसङ्गेषु यथार्थता, वैदर्भीरीतिविलासः, भाषायाः प्राञ्जलता, पदलता, पदललित्यं च मेधाव्रताचार्यस्य काव्यशैल्याः प्रमुखाः गुणाः सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=मेधाव्रताचार्यः&oldid=372661" इत्यस्माद् प्रतिप्राप्तम्