ब्रह्मणः आयुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतीयविश्वासानुगुणं ब्रह्मा विश्वस्य सृष्टा अस्ति । अस्य आयुः १०००ब्रह्मवर्षाणि भवन्ति । अस्य आयुः १०००महायुगसमानं भवति ।

विष्णुपुराणानुसारं युगानां कालगणनम् एवं भवति ।

  • २ अयने (६मासावधिः) = ३६० मानववर्षाणि = एकं दिव्यवर्षम् ।
  • ४००० + ४०० + ४०० = ४८०० दिव्यवर्षाणि = १ कॄतयुगम् ।
  • ३००० + ३०० +३०० = ३६०० दिव्यवर्षाणि = १ त्रेतायुगम्
  • २००० +२०० + २०० = २४०० दिव्यवर्षाणि = १ द्वापरयुगम् ।
  • १००० + १०० + १०० = १२०० दिव्यवर्षाणि = १ कलियुगम् ।
  • १२००० दिव्यवर्षाणि = ४ युगानि = १महायुगम् (दिव्ययुगम् इत्यपि नाम )

ब्रह्मणः कालगणनम्[सम्पादयतु]

  • १००० महायुगानि = १ कल्पः = ब्रह्मणः १ दिवसः सूर्यस्य खगोलीयं वैज्ञानिकम् आयुः अपि ।)
  • ३० ब्रह्मदिवसाः = १ ब्रह्ममासः ।
  • २१ ब्रह्मणः मासाः = १ ब्रह्मवर्षम् ।
  • ५० ब्रह्मवर्षाणि = १ परार्धम् ।
  • २ परार्धे= १०० ब्रह्मवर्षाणि = १ महाकल्पः । (ब्रह्मणः जीवनकालः)

ब्रह्मणः एकः दिवसः १००००भागेषु विभक्ताः । एकस्य भागस्य चरणः इति कथ्यते ।

चतुर्युगानि
४ चरणाः (1,728,000 सौरवर्षाणि)सत्ययुगम्
३ चरणाः (1,296,000 सौरवर्षाणि) त्रेतायुगम्
२ चरणाः (८६४००० सौरवर्षाणि)द्वापरयुगम्
१ चरणाः (४३२००० सौरवर्षाणि)कलियुगम्

एतत् चक्रवत्परिवर्तत् भवति । ब्रह्मणः एकस्मिन् दिवसे १००० महायुगानि सम्भवन्ति ।

  • एकम् उपर्युक्तयुगानां चक्रम् । = एकं महायुगम् (४३ लक्षानि २०सहस्राणि सौरवर्षाणि ।)
  • श्रीमद्भग्वदगीतानुसारां सहस्रयुगाहरयद्भ्रह्मणो विदुः । अर्थात् ब्रह्मणः एकं दिनं नाम १०००महायुगानि इति । एतदनुसारं ब्रह्मणः एकं दिनं = = ४अर्बुदः ३२ शतप्रयुतानि सौरवर्षाणि । एवमेव ब्रह्मणः रात्रेः अवधिः अपि भवति ।
  • एकस्मिन् मन्वन्तरे ७१ महायुगानि (३०६,७२०,००० सौरवर्षाणि) भवन्ति । प्रत्येकं मन्वन्तरस्य प्रशासकः कश्चित् मनुः भवति ।
  • प्रत्येकं मन्वन्तरस्य अनन्तरं कश्चन सन्धिकालः आगच्छति । यः कृतयुगस्य समानं भवति । (१७२८ ००० = ४चरणाः )
  • एकस्मिन् कल्पे १७२८०००सौरवर्षाणि भवन्ति । अस्य आदिसन्धिः इति नाम । यस्य अनन्तरं १४मन्वन्तरकालाः सन्धिकालाः च आयान्ति ।
  • ब्रह्मणः एकंदिनं नाम ।
(१४ गुणाः ७१ महायुगानि) + (१५ x ४ चरणाः)
= ९९४ महायुगानि + (६० चरणाः)
= ९९४ महायुगानि + (६ x १०) चरणाः
= ९९४ महायुगानि + ६ महायुगानि
= १००० महायुगानि

बाह्यानुबन्धाः[सम्पादयतु]

[१] Archived २०१५-०६-२५ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=ब्रह्मणः_आयुः&oldid=480685" इत्यस्माद् प्रतिप्राप्तम्