अपह्नुत्यलङ्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



अपहनुति: इत्यस्य निषेध: इत्यर्थ:, सच सादृश्यमूलकाभेदमतिपतिपूर्वक: अलकारः। अपहनुति: षट्विधा:  -

(१) शुद्धापह्नुति: (२) हेत्वापह्नुतिः (३) पर्यस्तापह्नुतिः  (५) भ्रान्तापह्नुतिः (५) छेकापह्नुतिः

(६) कैतवापह्नुति:।

  • (१) शुद्धापह्तुति:
शुद्धापह्नुतिरन्यस्य आरोपार्थो धर्मनिह्नवः ।
नायं सुधांशु किं तर्हि? व्योमगङ्गसरोरुहम् ॥

अर्थः[सम्पादयतु]

वर्णनीयवस्तूनि तत्सदृशधर्मारोपफलकः तदीयो धर्मः निह्नवः कविमतिविकासित-उत्प्रेक्षितधर्मान्तरस्यापि निह्नवः शुद्धापह्नुतिः । यथा चन्द्रे वियन्नद् पुण्डरीकत्वारोपफलकस्तदीयधर्मस्य चन्द्रत्वस्यापह्नवः ।

उदाहरणान्तरम्[सम्पादयतु]

अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे
सारङ्गं कतिचिच्च सञ्जगदिरे भूच्छायमैच्छन् परे ।
इन्दौ यत् दलितेन्द्रनीलशकलश्यामं दरीदृश्यते
तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्षते ॥

अत्र उत्प्रेक्षितधर्माणां अपि अपह्नवः परपक्षत्वोपन्यासादर्थसिद्धिः ।

बाह्यसम्पर्कः[सम्पादयतु]

[१]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अपह्नुत्यलङ्कारः&oldid=444260" इत्यस्माद् प्रतिप्राप्तम्