दृष्टान्तालङ्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



लक्षणश्लोकः[सम्पादयतु]

चेद्बिम्बप्रतिबिम्बित्वं दृष्टान्तस्तदलङ्कृतिः ।
त्वमेव कीर्तिमान् राजन्! विधुरेव हि कान्तिमान् ॥

यत्र उपमानोपमेयवाक्ययोः भिन्नावैव धर्मौ बिम्बप्रतिबिम्बभावेन निर्दिष्टौ तत्र दृष्टान्तः । त्वमेव कीर्तिमान् इत्यत्र कीर्तिकान्त्योः बिम्बप्रतिबिम्बभावः ।

उदाहरणान्तरम्[सम्पादयतु]

कामं नृपाः सन्ति सहस्रशोऽये राजन्वरीमाहुरनेन भूमिम् ।
नक्षत्रताराग्रहसङ्कुलपि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥

ननु अत्र उपमानोपमेय्वाक्ययोर्ज्ञानमेक एव धर्म इति प्रतिवस्तूपमा युक्ता । मैवम् अचेतने विवक्षितत्वात् । अत्र उदाहरणे पदावृत्तिदीपकाद्विशेषः पूर्ववत् प्रस्तुताप्रस्तुतविषयत्वकृतः द्रष्टव्यः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दृष्टान्तालङ्कारः&oldid=419216" इत्यस्माद् प्रतिप्राप्तम्