मालिनीछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रतिचरणम् अक्षरसङ्ख्या १५।

ननमयययुतेयं मालिनी भोगिलोकै:।- केदारभट्टकृत- वृत्तरत्नाकर:३. ८४

।।। ।।। ऽऽऽ ।ऽऽ ।ऽऽ

न न म य य।

अस्मिन् वृत्ते पञ्चदशाक्षराणि भवन्ति तथा च प्रत्येकम् अपि पादे क्रमेण नगणद्वयम्,एकः मगणः यगणद्वयञ्च भवति तदा मालिनीत्युच्यते ।

यति: अष्टभि: सप्तभि:च।

लक्षणम्[सम्पादयतु]

न न म य य युतेयं मालिनी भोगिलोकैः

अस्मिन् वृत्ते पञ्चदशाक्षराणि भवन्ति तथा च प्रत्येकम् अपि पादे क्रमेण नगणद्वयम्,

एकः मगणः यगणद्वयञ्च भवति तदा मालिनीत्युच्यते ।

यतिस्तु अष्टमे सप्तमे च भविष्यति ।

उदाहरणम्[सम्पादयतु]

प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा नारिकेला नराणाम्।

ददति जलमनल्पास्वादमाजीवितान्तं न हि कृतमुपकारं साधवो विस्मरन्ति।।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मालिनीछन्दः&oldid=461208" इत्यस्माद् प्रतिप्राप्तम्