तिरुवळ्ळुवरदिनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तिरुवळ्ळुवरमहोदयः क्रिस्त शके प्रथम शतके आसीत् । एषः मधुरै नगरे जन्म लब्धवान् । अस्य पिता ब्राह्मणः माता च हरिजनकन्या आसीत् । तिरुवळ्ळुवर् तन्तुवायः आसीत् । तिरुवळ्ळुवरमहोदयस्य पत्नी वासुकिः पतिव्रता । ग्रामान्ते कुटीरे दम्पती वसतःस्म । कुरुळ इति गीतानि एषः रचितवान् । तमिळुनाडु राज्ये तिरुवळ्ळुवर जन्मदिनं विशेष रुपेण आचरन्ति ।

कन्याकुमारी नगर्यां विद्यमाना तिरुवळ्ळुवरस्य प्रतिमा

तिरु इत्यस्य श्री इत्यर्थः अस्ति । श्री तिरुवळ्ळुवर् महोदयः तेलुगु भाषायां वेमनः, कन्नड भाषायां सर्वज्ञः इव स्वीयानि काव्यानि रचितवान् । सार्धैकपादपरिमितं छन्दः कुरुळवेण्वा इति प्रसिध्दम् अस्ति । यथा श्रीहरिः वामनावतारे कुब्जः सन् त्रिविक्रमरुपं दार्शितवान् तथैव एतानि पद्यानि विशालार्थस्य बोधकानि सन्ति । एतेषु कुरुळपद्येषु मानवीयभावनायाः, अनुभवस्य च महिमा ज्ञातुं साध्यमस्ति शक्यः ।

तुरुवळ्ळुवर महोदयः तिरुक्कुरुळमहाग्रन्थं लिखितवान् । अस्मिन् धर्मार्थकाम मोक्षविषयेषु पद्यानि रचितवान् । विश्वसाहित्ये एव अस्य ग्रन्थस्य एकं महत्वपूर्णं स्थानमस्ति । तमीळुभाषायां तिरुयन्त्र, तिरुक्कुरुळ, तिरुवायकं श्रेष्ठग्रन्थाः सन्ति । उत्तमः भाषाप्रयोगं पदबन्धं अर्थविस्तारं तिरुवळ्ळुवर ग्रन्थेषु पश्यामः । इतरविषयेषु कालिदासस्य शाकुन्तलस्य कुरुळ् पद्यानि भगवद्गीतायाः कुरुळ् पद्यानि कृतानि सन्ति । एतेषां पठनेन जनानां कष्टानुक्तिः, आनन्दलाभे लोकव्यवहारज्ञानं च अवश्यं साध्यम् अस्ति ।

कुरुळ्पद्येषु भारतीयसंस्कृतेः हिन्दुधर्मस्य विशेषांशाः उपनिषदां सारः सङ्ग्रहीतः अस्ति । अतएव कुरुळ्गीतानि 'पञ्चमवेद' इति प्रसिध्दानि । चेन्नैनगरे बेङ्गलूरुनगरे तिरुबळ्ळुवर मूर्तिः स्थापिता अस्ति । कानिचन पद्यानि एवं अर्थं बोधयन्ति यथा 'जन्मदातुः पुत्रं प्रति यथा सन्तोषः भवति तस्यापेक्षया अधिकसन्तोषः सः गुणसम्पन्नः इति श्रवणेन भवति । 'दुष्टकार्येण दुष्टानि कार्याणि वर्धयन्ति । “ दुष्काये अग्नितः अपि विशेषेण नरैः भेतव्यं अस्ति” । प्रीत्या जीवनं कर्तव्यम् सर्वेषां यत्किञ्चित् ददत् एव जीवनं कुरु” । मेघा इव निष्काम कर्म कुरु, कर्तव्यं कुरु । इत्यादि । तिरुवळुवर् जनानां भाषया एव स्वकाव्यानि रचितवान् । जनाः अपि सगौरवं स्वीकृतवन्तः । जीवने त्यागः, सेवा, प्रेम वैराग्यंम् एतानि मुख्यानि इति तिरुवळ्ळुवर् महोदयस्य अभिप्रायः अस्ति । तिरुवळ्ळुव्रमहोदयः वर्णाश्रमधर्मसम्बन्धिनः उपदेशानपि सुन्दरतया वर्णितवान् । अहिंसा जीवनस्याधारः इत्युक्तवान् । तिरुवळ्ळुवर् स्वकाव्यैः अधुनापि स्मरणीयः अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तिरुवळ्ळुवरदिनम्&oldid=480425" इत्यस्माद् प्रतिप्राप्तम्