व्योमशिवाचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अयमाचार्यो दाक्षिणात्य आसीत् । अनेन प्रशस्तपादभाष्यमधिकृत्य "व्योमवती टीका" विरचिता या हि प्राचीनतमा मन्यते । अस्योल्लेखः उदयनाचार्य-राजशेखरादिभिरादरेण विहितः । अस्य स्थितिकालविषये सम्राजः हर्षवर्धनस्य शासने उल्लेखः वर्तते । अयमाचार्यः शब्दस्यापि प्रामाण्यं स्वीकृतवान् । एवं न्यायस्य प्रभावः अस्य कृतित्वे परिलक्ष्यते ।

"https://sa.wikipedia.org/w/index.php?title=व्योमशिवाचार्यः&oldid=374068" इत्यस्माद् प्रतिप्राप्तम्