गोण्डजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


गोण्डजनाङ्गीयानां वासस्थानानि[सम्पादयतु]

गिरिजनाः इति परिगणिताः ‘गोण्डजनाङ्गीयाः बीदरमण्डले, गुल्बर्गामण्डले, उत्तरकन्नडमण्डले च अधिसङ्ख्यया सन्ति । उत्तरकन्नडमण्डलस्य भट्कळ-उपमण्डले, दक्षिणकन्नडमण्डलस्य बैन्दूरुप्रदेशे , शिवमोग्गमण्डलस्य सागरप्रदेशे अपि एते निवसन्ति । एते सर्वे भट्कळस्य गोण्डानां सीमायाम् एव अन्तर्भवन्ति । ‘गोण्ड’ इति नाम कथम् आगतम् इति न ज्ञायते । मध्यभारते, आन्द्रप्रदेशे च ये गोण्डाः आसन् ते एव कर्णाटकं प्रति आगतवन्तः स्युः इति ऊहा अस्ति । भट्कळ- उपमण्डले तत्रापि शिरालिप्रदेशे गोण्डाः अधिकतया वसन्तः सन्ति । तान् ‘शिरालेः गोण्डाः’ इत्येव निर्दिशन्ति ।

गोण्डजानाङ्गीयानां भाषावैशिष्ट्यम्[सम्पादयतु]

एते कन्नडभाषामेव वदन्ति । कोटकन्नडस्य, उत्तरकन्नडस्य च गाढप्रभावः एतेषां भाषायाः उपरि दृश्यते । नास्ति इति वक्तुम् ‘इल्ले’, गमनागमन समये ‘होपङ्गे, बप्पङ्गे’ इति वदन्ति ।

गोण्डजानाङ्गीयानाम् आहारवैशिष्ट्यम्[सम्पादयतु]

यवागूः एतेषां प्रमुखाहारः । तालपिष्टम् आहारपदार्थमिव उपयुञ्जते । शनिवासरे, सोमवासरे च देवस्य दिनमिति मांसाहारस्य निषेधः अस्ति । एतेषु स्त्रीपुरुषाणां च नामानि विशिष्टानि सन्ति ।

इतरवैशिष्ट्यानि[सम्पादयतु]

स्त्रीषु मङ्गळि, सुक्रि, अम्म, सोमि, मास्ति, बडकि नामानि सन्ति चेत् पुरुषेषु कुप्प, सण्णु, बडिया, मोळेया, सोमय्य, देवय्य, मञ्जु, मास्ति, तिम्मप्प, मूडलगिरि इत्यादि नामानि भवन्ति । गोण्डजनेषु विद्यावन्ताः न्यूनाः । इदानीन्तनदिनेषु वित्तकोषे सहायकाः इव, सहकारि- सङ्घेषु विक्रयप्रतिनिधिः इव च कार्यं कुर्वन्तः सन्ति । एते ब्राह्मणानां गृहेषु केवलं कार्यं कुर्वन्ति । अन्यकुलीयानां गृहेषु एते जलमपि न पिबन्ति । मृत्तिकाभित्तेः उपरि तृणम् आच्छाद्य गृहनिर्माणं कुर्वन्ति । मृच्छदगृहाणि ‘ओडलमने’ इति एतैः कथ्यन्ते। गोण्डानां प्रमुखः उद्योगः व्यवसायः । स्वक्षेत्रस्य पूगं, हरितमरीचिकां, कदलीम्, अनानसफलं, ताम्बूलपर्णानि च विपणिम् आनीय विक्रयणं कुर्वन्ति । एतेषु विधि-निषेधाः बहवः सन्ति । सुरापानं न करणीयम् । नगरशैल्या केशविन्यासः न करणीयः । अन्यथा दण्डः दातव्यः भवति । दीपावळी एतेषां श्रेष्ठं पर्व । एतत् क्षीरपर्व इत्यपि निर्दिश्यते । शिवरात्रेः सुग्गिनृत्यम् एतेषां विशिष्टं जानपदनृत्यम् । पत्युः मरणानन्तरमपि विधवया माङ्गल्यं धर्तुं शक्यते । पत्युः मरणस्य दिनत्रयानन्तरं नासिकाभरणं धर्तुं शक्यते । पतिं त्यक्त्वा आगतवतीम् अन्यः कश्चन यः पत्नीं त्यक्तवान् अस्ति तादृशः वोधुम् अर्हति । किन्तु विधवाविवाहः एतेषु नास्ति । शवस्य दहनं कुर्वन्ति । किन्तु बालाः, गर्भवत्यः, प्रसूतिकाः, तिरुपतियात्रां कृतवन्तः च मृताः चेत् तादृशानां शवं निखनन्ति । भूतप्रेतेषु एतेषां विश्वासः अधिकः । भूतपीडा भवति चेत् कुक्कुटस्य बलिं यच्छन्ति ।

"https://sa.wikipedia.org/w/index.php?title=गोण्डजनाङ्गः&oldid=388671" इत्यस्माद् प्रतिप्राप्तम्