हक्किपिक्किजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आदिवासी जनाः
कर्णाटका क्षेत्रस्य आदिवासी जनः
कर्णाटका क्षेत्रस्य आदिवासी जनः
आदिवासी जनाः
कर्णाटका क्षेत्रस्य आदिवासी जनः
कर्णाटका क्षेत्रस्य आदिवासी जनः
हक्किपिक्किजनाङ्गः
हक्किपिक्किजनाङ्गः
हक्किपिक्किजनाङ्गः
हक्किपिक्किजनाङ्गः
हक्किपिक्किजनाङ्गः
हक्किपिक्किजनाङ्गः

हक्किपिक्किजनाङ्गस्य स्थानानि[सम्पादयतु]

एतेषां मूलवासस्थानं राजास्थानस्य ‘बाग्रा’ नामक प्रदेशः । अतः एते स्वान् ‘वाग्रि’ (बाग्रि) इति आह्वयन्ति । कर्णाटकस्य गुल्बर्गामण्डले, बीदरमण्डले, बिजापुरमण्डले, बळ्ळारीमण्डले, धारवाडमण्डले, चिक्कमगळुरुमण्डले, शिवमोग्गामण्डले, हासनमण्डले, मण्ड्यमण्डले, मैसूरुमण्डले, बेङ्गळूरुमण्डले च अधिकतया वसन्तः सन्ति । एतेषु जात्, भुक्सा च इति गणद्वयम् अस्ति । एतेषु अधिकानि गोत्राणि(बळि) च सन्ति ।

हक्किपिक्किजनाङ्गस्य वृत्तिः[सम्पादयतु]

एते मृगयाम् अवलम्ब्य जीवन्ति । मृगयां कुर्वन्तः तस्य मूलोत्पन्नस्य विक्रयणं कुर्वन्ति । स्वेषां पशुभिःवः, परिवारेण च सह प्रदेशतः प्रदेशम् अटन्ति ।

हक्किपिक्किजनाङ्गस्य आचाराः[सम्पादयतु]

सामान्यतः एतेषु बाल्यविवाहपद्धतिः अस्ति । वधुदक्षिणापद्धतिः अपि अस्ति । एतेषु विवाहविच्छेदनं बहुसुलभम् । पक्षिणः इव कूजन्तः तेषां मृगयां कुर्वन्ति । मयूरस्य, गीजगस्य, कपोतस्य, वनकुक्कुटस्य च शब्दस्य अनुकरणकला एतैः करगता अस्ति । स्वस्य प्रियाः एव आह्वयन्तः सन्ति इति मत्वा शब्दस्य दिशि धावन्ति पक्षिणः। स्थापिते जाले पतन्ति । हरिणजालस्य रन्ध्रजालस्य च निर्माणे एते कुशलाः । एतेषां सम्भाषणस्य भाषायाः लिपिः नास्ति । एतेषां गृहभाषा ‘वाग्रि’ (वागरियो) । एषा काचित् मिश्रभाषा । गुजराती, हिन्दी, मराठी, राजस्थानी भाषाणां शब्दाः वाग्रिभाषायाम् अधिकतया उपयुज्ज्यन्ते ।

"https://sa.wikipedia.org/w/index.php?title=हक्किपिक्किजनाङ्गः&oldid=391989" इत्यस्माद् प्रतिप्राप्तम्